Book Title: Shraddhvidhi Kaumudi
Author(s): Vairagyarativjay
Publisher: Pravachan Prakashan
________________
पञ्चमः प्रकाशः
२०७
एकाहारी दर्शनधारी यात्रासु भूशयनकारी । सच्चित्तपरिहारी पदचारी ब्रह्मचारी च । लौकिकैरप्युक्तंयानमर्द्धफलं हन्ति तुरीयांसमुपानहौ । तृतीयांशमवपनं सर्वं हन्ति प्रतिग्रहः ॥ एकभक्ताशिना भाव्यं तथा स्थण्डिलशायिना । तीर्थानि गच्छता नित्यमप्यतौ ब्रह्मचारिणा ॥
तदनु यथार्हदानादिना सन्तोष्याऽनुज्ञापयति क्षमापतिम् । प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थं देवालयान् । आकारयति सविनयबहुमानं स्वज्ञनसार्मिकादिवर्गम् । निमन्त्रयते सभक्ति सद्गुरून् । प्रवर्त्तयत्यमारिम् । निर्मापयति चैत्यादौ महापूजादिमहोत्सवम् । ददाति निःशम्बलेभ्यः शम्बलं, निर्वाहनेभ्यो वाहनं, निराधारेभ्यः सद्वचनविभवाद्याधारम्, यथार्ह सान्निध्यप्रदानविषयोद्घोषणापूर्वं सार्थवाह इव प्रोत्साहयति निरुत्साहमनसोऽपि, कारयति साडम्बर-प्रौढतरंगुरूदरचतुरक-शरावक-ततंपट-पटमण्डप-प्रौढकटाहि-चलत्कूपसरोवरादीन्, सज्जयति शकट-सेजवालकरथ- पर्यङ्किकाप्रौष्ठिककरभतुरंगादीन्, आह्वयति श्रीसङ्घरक्षार्थमत्युद्भटाननेकसुभटान्, सन्मानयति कवचाङ्गकाद्युपस्कारार्पणेन तान्, प्रगुणयति गीतनृत्यवाद्यादिसमग्रसामग्रीम् । ततः करोति समुहूर्ते शुभशकुनमिनित्ताधुत्साहितः प्रस्थानमङ्गलम् । तत्र मीलयति सकलसमुदायं, भोजयति विशिष्टविशिष्टंतरभोज्यताम्बूलादिभिः, परिधापयति पञ्चाङ्गमडिदुकूलादिभिः । विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभाग्यवत्तरनरेभ्यः श्रीसङ्घाधिपत्यतिलकम् । विदधाति सङ्घपूजादिमहामहम् । निर्मापयत्येवमन्येभ्योऽपि यथोचितं सङ्घाधिपत्यादितिलकमहम् । स्थापयति महाधराग्रेसरपृष्ठिरक्षसङ्घाध्यक्षप्रमुखान् । प्रख्यापयति श्रीसङ्घचलनोत्तरणादिसर्वसङ्केतव्यवस्थाम् । सम्भालयति मार्गे सर्वान् साथिकान् । विश्राणयति तेषां शकटाङ्ग
Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346