Book Title: Shraddhvidhi Kaumudi
Author(s): Vairagyarativjay
Publisher: Pravachan Prakashan

Previous | Next

Page 15
________________ १४ विकुर्वीतकुसुमैरर्चा कृतेति वाच्यम्, राजप्रश्नीयसूत्रे जलस्थलसमुद्भुतकुसुमानां प्रोक्तत्वात् । देवानां तथाकल्पत्वेन भवनिबन्धनं तदाचरणं न तु देशविरतादीनामत एव देवा अधार्मिका इति प्रोच्यन्ते इति वाक्पटुता नैव प्रकटनीया, एवं सति तत्र संयमादेरपि भवनिबन्धनत्वं स्यात् । अर्चायां विराधनासम्भवात् भवत्येतत्, अत्र तु तस्या असम्भवात् नैतत् सम्भवतीत्यप्यलीकं, तत्रापि गमनागमनक्रियासु वायुकायादीनां विराधनासम्भवात् । विबुधानामधार्मिकत्वकथनेन सूत्राशातनां मा विधेह्यन्यथा भवान्तरे बोधिरपि दुर्लभा भविष्यति, तेषु श्रुतधर्मादीनां विद्यमानत्वात्, किं बहुनाऽसंयतत्वविद्यमानेऽपि निष्ठुरवचनत्वेन देवानामसंयतत्वव्यपदेशस्यापि निरस्तत्वात् । तथा चोक्तं पञ्चमशतके चतुर्थोद्देशे "देवाणं भंते ! संजय त्ति वत्तव्यं सिया ? गोयमा ! नो इणढे समटे अब्भखाणमेयं देवाणं । देवाणं भंते ! असंजय त्ति वत्तव्वं सिया ? नो इणढे समढे निट्ठरवयणमेयं देवाणं । देवाणं भंते ! संजयाऽसंजय त्ति वत्तव्वं सिया ! गोयमा ! नो इणढे समढे असब्भुअमेयं देवाणं । से किं खाइएणं भंते ! देव त्ति वत्तव्वं सिया ? गोयमा ! देवाणं नो संजय त्ति वत्तव्वं सिया।" (व्याख्याप्रज्ञप्ति) यत्तु देवानामधार्मिकत्वमुक्तं तत्तु संयमधर्मापेक्षया प्रत्येतव्यम्, तस्मात् आगमोपदिष्टकूपज्ञातेन सुव्यवस्थितं सफलत्वमित्यलमतिपल्लवितेन । अस्मिन् विषयेऽधिकजिज्ञासुभिस्तु समवलोकनीया वादिद्विरदपञ्चाननश्रीमद्यशोविजयवाचकवरविरचितप्रतिमाशतकादिप्रबन्धाः। . ____ श्रीजिनप्रतिकृतिसपर्यानिषेधकस्तु साम्प्रतसमये विद्यमानजैनाभासढुंढकस्य लुम्पकनामाऽऽदिपुरुषोऽस्य निबन्धस्य निर्मातरि भगवति विद्यमाने प्रादुरभूत् । एतद्वृत्तान्तस्तु कुमतमतततितिरस्करणतरणितुल्यश्रीमद्धर्मसागरवाचकानां "तदानीं च लुम्पकाख्यलेखकात् विक्रमाष्टाधिकपञ्चदशशते १५०८ वर्षे जिनप्रतिमोत्थापनपरं लुंपकमतं प्रवृत्तम् । तद्वेषधरास्तु विक्रमीयत्रयस्त्रिंशदधिकपञ्चदशशतवर्षे जातास्तत्र प्रथमो वेषधारी भाणाख्यो अरहटवाडावास्यभूदिति ।" एतदुल्लेखेन स्पष्टमवसीयते इति । रात्रिकृत्यनामकद्वितीयप्रकाशे दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 346