________________
१४
विकुर्वीतकुसुमैरर्चा कृतेति वाच्यम्, राजप्रश्नीयसूत्रे जलस्थलसमुद्भुतकुसुमानां प्रोक्तत्वात् । देवानां तथाकल्पत्वेन भवनिबन्धनं तदाचरणं न तु देशविरतादीनामत एव देवा अधार्मिका इति प्रोच्यन्ते इति वाक्पटुता नैव प्रकटनीया, एवं सति तत्र संयमादेरपि भवनिबन्धनत्वं स्यात् । अर्चायां विराधनासम्भवात् भवत्येतत्, अत्र तु तस्या असम्भवात् नैतत् सम्भवतीत्यप्यलीकं, तत्रापि गमनागमनक्रियासु वायुकायादीनां विराधनासम्भवात् । विबुधानामधार्मिकत्वकथनेन सूत्राशातनां मा विधेह्यन्यथा भवान्तरे बोधिरपि दुर्लभा भविष्यति, तेषु श्रुतधर्मादीनां विद्यमानत्वात्, किं बहुनाऽसंयतत्वविद्यमानेऽपि निष्ठुरवचनत्वेन देवानामसंयतत्वव्यपदेशस्यापि निरस्तत्वात् । तथा चोक्तं पञ्चमशतके चतुर्थोद्देशे "देवाणं भंते ! संजय त्ति वत्तव्यं सिया ? गोयमा ! नो इणढे समटे अब्भखाणमेयं देवाणं । देवाणं भंते ! असंजय त्ति वत्तव्वं सिया ? नो इणढे समढे निट्ठरवयणमेयं देवाणं । देवाणं भंते ! संजयाऽसंजय त्ति वत्तव्वं सिया ! गोयमा ! नो इणढे समढे असब्भुअमेयं देवाणं । से किं खाइएणं भंते ! देव त्ति वत्तव्वं सिया ? गोयमा ! देवाणं नो संजय त्ति वत्तव्वं सिया।" (व्याख्याप्रज्ञप्ति) यत्तु देवानामधार्मिकत्वमुक्तं तत्तु संयमधर्मापेक्षया प्रत्येतव्यम्, तस्मात् आगमोपदिष्टकूपज्ञातेन सुव्यवस्थितं सफलत्वमित्यलमतिपल्लवितेन ।
अस्मिन् विषयेऽधिकजिज्ञासुभिस्तु समवलोकनीया वादिद्विरदपञ्चाननश्रीमद्यशोविजयवाचकवरविरचितप्रतिमाशतकादिप्रबन्धाः। . ____ श्रीजिनप्रतिकृतिसपर्यानिषेधकस्तु साम्प्रतसमये विद्यमानजैनाभासढुंढकस्य लुम्पकनामाऽऽदिपुरुषोऽस्य निबन्धस्य निर्मातरि भगवति विद्यमाने प्रादुरभूत् । एतद्वृत्तान्तस्तु कुमतमतततितिरस्करणतरणितुल्यश्रीमद्धर्मसागरवाचकानां "तदानीं च लुम्पकाख्यलेखकात् विक्रमाष्टाधिकपञ्चदशशते १५०८ वर्षे जिनप्रतिमोत्थापनपरं लुंपकमतं प्रवृत्तम् । तद्वेषधरास्तु विक्रमीयत्रयस्त्रिंशदधिकपञ्चदशशतवर्षे जातास्तत्र प्रथमो वेषधारी भाणाख्यो अरहटवाडावास्यभूदिति ।" एतदुल्लेखेन स्पष्टमवसीयते इति ।
रात्रिकृत्यनामकद्वितीयप्रकाशे दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक