________________
१५
सांवत्सरिकप्रतिक्रमणाद्यनेकविधयो विहिताः । पर्वकृत्याख्यतृतीयप्रकाशे पर्वतिथि-अष्ट्ाह्निक-पौषधविध्यादिस्वरूपं समदर्शि । चातुर्मासिककृत्यनामकचतुर्थप्रकाशे चातुर्मासिकनियमाणुव्रतादिस्वरूपं सङ्कलितम् । वर्षकृत्यनामकपञ्चमप्रकाशे-सङ्घार्चन-साधर्मिकवात्सल्य - श्रीजिनस्य रथयात्रादिकृत्यानि कथितानि सन्ति । जन्मकृत्यनामकषष्ठप्रकाशे वासस्थान - विद्याग्रहण-विवाहविधिश्रीजिनचैत्यकारापणाद्यनेककृत्यानि प्रतिपादितानि ।
ग्रन्थस्यास्य मुद्रापणार्थं तपगच्छगगनाङ्गणगगनमणि-न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरं ( आत्मारामजी ) पट्टविराजित - श्रीमद्विजयकमलसूरीश्वरसदुपदेशामृतसिक्तेन 'गोधा 'निवासिना श्रेष्ठिवरेण जयचन्द्रतनुजन्मना श्रीमज्जीवनचन्द्रेण द्रव्यसाहाय्यं दत्तम् ।
शुद्धिविषये चास्य सुज्ञातसमयसारैर्वाचकवर्यश्रीमद्वीरविजयचरणसरोरुहसेवाहेवाकिभिरस्मद्गुरुगुरुवर्य - अनुयोगाचार्य श्रीमद्दानविजयगणिभिः कृतेऽपि यथाशक्ति प्रयासे “मनुष्यसहभुवो भ्रान्तयो दुनिर्वारा: " इति नियमेन याः काश्चन च्युतयः स्थिता भवेयुः शीसकाक्षरयोजकदोषेण यन्त्रेशदौर्लक्ष्येण च बह्व्यो जाताः ताः कृपालुतां विधाय स्वभावसुन्दराः सुहृदः संशोधयन्तु ।
लिखिता चेयं लघ्वी प्रस्तावना म्हेसाणाग्रामसंस्थितेन श्रीमद्विजयकमलसूरीश्वरसुसाम्राज्ये प्रवर्त्तमानेनानुयोगाचार्य श्रीमद्दानविजय- पादपद्मपरिचर्यापरायणमुनिश्रीप्रेमविजयान्तेवासिना मुनिरामविजयेन (वर्तमान पू. आ. भ. श्रीविजयरामचन्द्रसूरिभिः) वैक्रमीये १९७४ संवत्सरे ज्येष्ठमासस्य कृष्णत्रयोदश्याम् ।
黑黑黑