________________
वस्तुविषयत्वस्वीकारात् । अन्यथा तवापि माताभगिन्यादिषु स्त्रीत्वसाम्येन स्वभार्यायामिव प्रवृत्तिप्रसङ्गः संपत्स्यते । किञ्च भरतसार्वभौमनिष्पादिताष्टापदगिरिचतुर्विंशतिजिनस्यातीतचतुर्विंशतिकायां ब्रह्मेन्द्रकृतश्रीनमिजिनस्य, आषाढिश्राद्धकारितश्रीशङ्केश्वरपार्श्वनाथस्य, श्रीभरतनरेशमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिनः, स्तम्भनपार्श्वनाथस्य, चैत्यादिविद्यमानबिंबानामावश्यकादिशास्त्रेषु स्पष्टपाठस्य निर्वर्णनात् । पञ्चमारकेऽपि मौर्यवंशमूर्धन्यपरमार्हतश्रीसंप्रतिमहाराजेन, चौलुक्यवंशचूडामणिश्रीकुमारपालभूपालादिना च निर्मापितानामनेकजिनबिम्बानां विद्यमानत्वाच्च नमस्काराद्यर्हत्वेन मान्या । यदि मूलावश्यके तादृशोल्लेखाभावेन निर्युक्तक्यादीनामप्रामाण्यत्वेनाधुनिकबिम्बानां त्वनभिमतत्वेन च न भवतां कापीष्टसिद्धिरिति चेत् ? न, त्वदभिमतसूत्रकृताङ्ग-स्थानाङ्ग-विवाहप्रज्ञप्ति-ज्ञाताधर्मकथाङ्ग-उपासकदशाङ्ग-औपपातिक-राजप्रश्नीय-जीवाभिगम-जम्बूद्वीपप्रज्ञप्त्यादि-समयरत्नाकरेषु निरूपितत्वात् । आप्तत्वव्याहृतिप्रसङ्गेनाप्तप्रवृत्तिः नैव संभाव्यते निष्प्रयोजिका । न च सिद्धान्ते नित्या प्रतिकृतिरेव प्रतिपादिता, ज्ञातादिषु द्रौपद्यधिकारे अनित्याया अपि प्रतिपादनात् । तस्या नियतस्थाने एव वर्तित्वात् साऽपि नित्यैवेति कल्पना नाञ्चति सामञ्जस्यम् । कृतनिदानत्वेन तस्या मिथ्यादृष्टित्वात् उद्वाहप्रसङ्गाच्च यक्षप्रतिमैन तत्र सम्भाव्यत इति विचारोऽपि न क्षोदक्षमः, अन्यथा सर्वेषामर्द्धचक्रवर्तिनां मिथ्यादृष्टित्वप्रसङ्गात्, तत्समये सुरूपवतां भर्तृणां यांच्याप्रसङ्गाच्च । न च तया तथा याञ्चा कृता, अपि तु शक्रस्तवेन ज़िनस्तुतिरेव कृता । अस्तु नाम प्रतिमाप्रतिपादनं परं अप्कायादिजीवोपमर्दनत्वेन हिंसासंभवात् हिंसायाश्च "सव्व पाणा सव्वे भूआ" इत्यादौ हिंसात्वावच्छेदेनानिष्टसाधनत्वप्रतिपादनात्, प्रतिमापूजाप्रतिपादनं नावहति सौष्ठवमिति नैव नोदनीयं, एवं सति दानादिक्रियाया अप्यभावापत्तेः, तस्मात् . जिनाज्ञैवान्वेषणीया । अपि च यतनया क्रियमाणा जिनार्चा न पापप्रयोजिका, प्रत्युत चित्तशुद्धिफलकत्वेन पुण्यादिप्रयोजिका । अर्चायां दानादाविव स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया असम्भवात् । यद्यप्ययतनया क्रियमाणा हिंसान्तर्भूतत्वेन पापप्रयोजिका तथापि भक्त्याऽविधिनापि विधीयमाना न तथा, भक्तिगुणेनाविधिदोषस्यापि निरनुबन्धिकृत्वात् । किञ्च आगमेऽपि सूर्याभदेवाद्य- . धिकारे सुमादिभिर्जिनार्चायाः प्रतिपादनान्नैवाशोभनं प्रतिमार्चाप्रतिपादनम् । न च