________________
च चरित्रम्, नाम-स्थापना-द्रव्य-भावभेदैः श्राद्धस्वरूपम्, श्रीजिनप्रतिकृतेः सविग्रहसपर्यायाश्च स्वरूपम्, सुपात्रदान-परिग्रहपरिमाणनियमपालने च रत्नसारकुमारचरित्रं च न्यवणि ।
न च वक्तव्यमत्र जिनप्रतिमाप्रतिपादनं विफलम्, जिननामतोऽपि तस्यास्तत्तद्गुणानां स्मृतिजनकत्वेन प्रकृष्टशुभाध्यवसायजनकत्वात्, कथञ्चिद्भावजिनस्वरूपत्वाच्च । तत्तद्गुणानां स्मृतिजनकत्वं च तस्याः समालोकितसंपूर्णशुभाङ्गसुन्दर्या मोहवतां मोहजनकत्वमिव, कामासनस्य कामिनां कामादिजनकत्वमिव, योगसनस्य योगिनां योगासनाभ्यासशेमुषीजनकत्वंमिव, भूगोललोकनालिकानन्दीश्वरद्वीपपुटलङ्कापुटादीनां निध्यानवतां प्रतिपाद्यत्वेन तद्गतपदार्थज्ञानजनकत्वमिव अनुभवसिद्धम् । यदाह
यथा हि संपूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः। . कामासनस्थापनतश्च कामकेलीविकारकलयन्ति कामिनः ॥१॥ योगासनालोकनतो हि योगिनां, योगासनाभ्यासमति: परिष्यात् । भूगोलतस्तद्गतवस्तुबुद्धिः, स्याल्लोकनालेरिह लोकसंस्थितिः ॥२॥ नन्दीश्वरद्वीपपुटात्तया च लङ्कापुटात्तद्गतवस्तुचिन्ता । एवं जिनेशप्रतिमापि दृष्टा तत्तद्गुणानां स्मृतिकारणं स्यात् ॥३॥ []
अत एव जिनप्रतिमा नात्यन्तजडस्वरूपा न वा मिथ्यात्वगुणस्थानवर्तिनी, येन नमस्कारादिकर्तृणां सर्वविरत्यादीनां बाधः स्यात् । एतेन जिनप्रतिकृतिः नमस्कारद्यानर्हा, जडत्वात्, प्रस्तरगोवत्, प्रथमगुणस्थावर्तित्वाद्वा, मृदादिवत्, इत्यप्यपास्तमवसातव्यम् । न च जिनप्रतिमैकान्तेन तत्तद्गुणस्मृतिजनकत्वेन प्रकृष्टशुभभावजनिकैव न किन्तु प्रत्युत केषाञ्चित् द्वेषवतां प्रकृष्टाशुभभावजनिकापीति वाच्यम्, अभव्यानां तीर्थपतिवाक्यवत् भवादृशानां भवाभिनन्दिनां तथात्वेऽपि अपुनर्बन्धकादीनां तथाऽभावात् । यद्वा प्रद्वेषवतां भावजिनाध्यारोपाभावेन तत्र स्थापनाजिनस्याप्यभावात् । न च स्थापनानिक्षेपे भावजिनत्वमसिद्धमिति प्रलपितव्यम्, भावजिनाध्यारोपेणैव स्थापनानिक्षेफ्स्य स्वीकृतत्वात् । न चाशङ्कनीयं विकल्पविषयत्वेनाध्यारोपस्यावस्तुत्वम्, कथञ्चित् अध्यारोपस्यापि