________________
विषममहाविघाताद्विडम्बनाब्धौ तरीव वृत्तियः । विदधे यज्ज्ञाननिधिं मदादिशिष्या उपाजीवन् ॥४॥ एकाङ्गा अप्येकादशाङ्गिनश्च जिनसुन्दराचार्याः । निर्ग्रन्था ग्रन्थकृतः श्रीमज्जिनकीर्तिगुरवश्च ॥५॥ एषां श्रीगुरूणां प्रसादतः षट्खतिथिवर्षे । श्राद्धविधिसूत्रवृत्तिं व्यधत्त श्रीरत्नशेखरसूरिः ॥६॥ विधिकौमुदीति वृत्तावस्यां विलोकितैर्वणः । श्लोकाः सहस्रषटकं सप्तशती चैकषष्ट्याधिकाः ॥७॥
. (श्रा. वि. प्रशस्ति) "श्रीमुनिसुन्दरसूरिपट्टे चतुःपञ्चाशत्तमः श्रीरत्नशेखरसूरिस्तस्य विक्रमसप्तपञ्चाशदधिके जन्म, त्रिषष्ठ्याधिके व्रतम्, त्र्यशीत्यधिके पण्डितपदम्, त्रिनवत्यधिके वाचकपदम्, द्वयुत्तरे पञ्चदशशतवर्षे सूरिपदम्, सप्तदशाधिके पौषकृष्णषष्ठीदिने स्वर्ग-भाक्, स्तम्भतीर्थे बांबीनाम्ना भट्टेन बालसरस्वतीति नाम दत्तं, तत्कृता ग्रन्थाः श्राद्धप्रतिक्रमणवृत्तिः श्राद्धविधिसूत्रवृत्तिराचास्प्रदीपश्चेति" । (पट्टावली) ___ एत्येतद् ग्रन्थप्रान्तप्रथितश्लोकसप्तकेन पाठकपदपरिभूषितश्रीमद्धर्मसागरगणिविरचितपट्टावल्या च स्पष्टतया स्वयमावेदयिष्यन्तीत्यतो विरम्यते तदुल्लेखात् ।
एतेन क्षेत्रसमास-गुणस्थानक्रमारोह-श्रीपालचरित्रादिप्रबन्धप्रणेतारः श्रीमद्रत्नशेखरसूरयस्तुं बृहत्तपागच्छेशश्रीमद्धेमतिलक-सूर्यन्तेवासित्वे-नैतत्प्रबन्धप्रणेतृसमकालीना न तु त एवेति स्पष्टमवसीयते ।
दिनकृत्य-रात्रिकृत्य-पर्वकृत्य-चातुर्मासिककृत्य-वार्षिककृत्य-जन्मकृत्यादि-षट्कृत्यप्रकाशात्मकेऽस्मिन् प्रबन्धे दिनकृत्यनामकप्रथमप्रकाशे श्राद्धानां माध्यस्थ्यादिचतुर्गुणोपवर्णनम्, उपलक्षणेनैकविंशतिगुणवर्णनम्, श्रीशत्रुञ्जयतीर्थस्य सान्वर्थनामसंस्थापकम् श्रीशुकराजचरित्रं तदन्तर्गतं श्रीदत्तकेवलिनः चन्द्रशेखरस्य