________________
अर्हम् न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश्वरपादपद्मभ्यो नमः ...
प्रस्तावना सुप्रसिद्धं ह्येतत् परिज्ञातपूतपारमेश्वरप्रवचनपरमार्थानां पण्डितप्रवराणाम् यदुत मुख्यतयाऽधिकारिद्वैविध्येन प्रकाशितवन्तः साधुधर्मं श्राद्धधर्मं च अपारेऽस्मिन् संसारनीराकरे निमज्जज्जन्तुजातस्य बोहित्थकल्पा धर्मवरसार्वभौमाः श्रीमत्तीर्थाधिपतयः । संदृब्धवन्तश्च सूत्रतया समवाप्योत्पादव्ययध्रौव्यात्मिकां त्रिपदी द्वादशाङ्ग्या निर्मातारः श्रीमद्गणभृत्पादाः । '
तदनुसारेण निर्मितोऽयं श्रीजिननिकेतन-प्रतिकृति-सपर्या-तन्निरूपिताणुव्रतादिरूपश्राद्धधर्मप्रतिपादक: सतशतैकषठ्यधिक-षट्सहस्र-सङ्ख्यात्मिकया स्वोपज्ञविधिकौमुद्याख्यवृत्त्योपेतः सप्तदशमूलगाथात्मकः श्राद्धविधिनामा निबन्धो भव्याम्भोजभासनभानुभिः सुविहितनामधेयैः श्रीमद्ररत्नशेखरसूरिवरैः ।
एते पूज्यप्रवराः केषां विनेयावतंसा:? कस्मिंश्च शुभसंमये समासादितवन्तो जन्मदीक्षादिकं ? काँस्काँश्च निर्मितवन्तो निबन्धान् ? कदां च ग्रथितोऽयं ग्रन्थः? इत्येतत् जिज्ञासव:
श्रीदेवसुन्दरगुरोः, पट्टे श्रीसोमसुन्दरगणेन्द्राः । युगवरपदवी प्राप्तास्तेषां शिष्याश्च पञ्चैते ॥१॥ .. मारीत्यवमनिराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥२॥ श्रीजयचन्द्रगणेन्द्रा निस्तन्द्राः सङ्घकार्येषु । .. श्रीभुवनसुन्दरसूरिवरा दूरविहारैर्गणोपकृतः ॥३॥ .