Book Title: Shraddhvidhi Kaumudi Author(s): Vairagyarativjay Publisher: Pravachan PrakashanPage 13
________________ च चरित्रम्, नाम-स्थापना-द्रव्य-भावभेदैः श्राद्धस्वरूपम्, श्रीजिनप्रतिकृतेः सविग्रहसपर्यायाश्च स्वरूपम्, सुपात्रदान-परिग्रहपरिमाणनियमपालने च रत्नसारकुमारचरित्रं च न्यवणि । न च वक्तव्यमत्र जिनप्रतिमाप्रतिपादनं विफलम्, जिननामतोऽपि तस्यास्तत्तद्गुणानां स्मृतिजनकत्वेन प्रकृष्टशुभाध्यवसायजनकत्वात्, कथञ्चिद्भावजिनस्वरूपत्वाच्च । तत्तद्गुणानां स्मृतिजनकत्वं च तस्याः समालोकितसंपूर्णशुभाङ्गसुन्दर्या मोहवतां मोहजनकत्वमिव, कामासनस्य कामिनां कामादिजनकत्वमिव, योगसनस्य योगिनां योगासनाभ्यासशेमुषीजनकत्वंमिव, भूगोललोकनालिकानन्दीश्वरद्वीपपुटलङ्कापुटादीनां निध्यानवतां प्रतिपाद्यत्वेन तद्गतपदार्थज्ञानजनकत्वमिव अनुभवसिद्धम् । यदाह यथा हि संपूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः। . कामासनस्थापनतश्च कामकेलीविकारकलयन्ति कामिनः ॥१॥ योगासनालोकनतो हि योगिनां, योगासनाभ्यासमति: परिष्यात् । भूगोलतस्तद्गतवस्तुबुद्धिः, स्याल्लोकनालेरिह लोकसंस्थितिः ॥२॥ नन्दीश्वरद्वीपपुटात्तया च लङ्कापुटात्तद्गतवस्तुचिन्ता । एवं जिनेशप्रतिमापि दृष्टा तत्तद्गुणानां स्मृतिकारणं स्यात् ॥३॥ [] अत एव जिनप्रतिमा नात्यन्तजडस्वरूपा न वा मिथ्यात्वगुणस्थानवर्तिनी, येन नमस्कारादिकर्तृणां सर्वविरत्यादीनां बाधः स्यात् । एतेन जिनप्रतिकृतिः नमस्कारद्यानर्हा, जडत्वात्, प्रस्तरगोवत्, प्रथमगुणस्थावर्तित्वाद्वा, मृदादिवत्, इत्यप्यपास्तमवसातव्यम् । न च जिनप्रतिमैकान्तेन तत्तद्गुणस्मृतिजनकत्वेन प्रकृष्टशुभभावजनिकैव न किन्तु प्रत्युत केषाञ्चित् द्वेषवतां प्रकृष्टाशुभभावजनिकापीति वाच्यम्, अभव्यानां तीर्थपतिवाक्यवत् भवादृशानां भवाभिनन्दिनां तथात्वेऽपि अपुनर्बन्धकादीनां तथाऽभावात् । यद्वा प्रद्वेषवतां भावजिनाध्यारोपाभावेन तत्र स्थापनाजिनस्याप्यभावात् । न च स्थापनानिक्षेपे भावजिनत्वमसिद्धमिति प्रलपितव्यम्, भावजिनाध्यारोपेणैव स्थापनानिक्षेफ्स्य स्वीकृतत्वात् । न चाशङ्कनीयं विकल्पविषयत्वेनाध्यारोपस्यावस्तुत्वम्, कथञ्चित् अध्यारोपस्यापिPage Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 346