Book Title: Shraddhvidhi Kaumudi Author(s): Vairagyarativjay Publisher: Pravachan PrakashanPage 14
________________ वस्तुविषयत्वस्वीकारात् । अन्यथा तवापि माताभगिन्यादिषु स्त्रीत्वसाम्येन स्वभार्यायामिव प्रवृत्तिप्रसङ्गः संपत्स्यते । किञ्च भरतसार्वभौमनिष्पादिताष्टापदगिरिचतुर्विंशतिजिनस्यातीतचतुर्विंशतिकायां ब्रह्मेन्द्रकृतश्रीनमिजिनस्य, आषाढिश्राद्धकारितश्रीशङ्केश्वरपार्श्वनाथस्य, श्रीभरतनरेशमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिनः, स्तम्भनपार्श्वनाथस्य, चैत्यादिविद्यमानबिंबानामावश्यकादिशास्त्रेषु स्पष्टपाठस्य निर्वर्णनात् । पञ्चमारकेऽपि मौर्यवंशमूर्धन्यपरमार्हतश्रीसंप्रतिमहाराजेन, चौलुक्यवंशचूडामणिश्रीकुमारपालभूपालादिना च निर्मापितानामनेकजिनबिम्बानां विद्यमानत्वाच्च नमस्काराद्यर्हत्वेन मान्या । यदि मूलावश्यके तादृशोल्लेखाभावेन निर्युक्तक्यादीनामप्रामाण्यत्वेनाधुनिकबिम्बानां त्वनभिमतत्वेन च न भवतां कापीष्टसिद्धिरिति चेत् ? न, त्वदभिमतसूत्रकृताङ्ग-स्थानाङ्ग-विवाहप्रज्ञप्ति-ज्ञाताधर्मकथाङ्ग-उपासकदशाङ्ग-औपपातिक-राजप्रश्नीय-जीवाभिगम-जम्बूद्वीपप्रज्ञप्त्यादि-समयरत्नाकरेषु निरूपितत्वात् । आप्तत्वव्याहृतिप्रसङ्गेनाप्तप्रवृत्तिः नैव संभाव्यते निष्प्रयोजिका । न च सिद्धान्ते नित्या प्रतिकृतिरेव प्रतिपादिता, ज्ञातादिषु द्रौपद्यधिकारे अनित्याया अपि प्रतिपादनात् । तस्या नियतस्थाने एव वर्तित्वात् साऽपि नित्यैवेति कल्पना नाञ्चति सामञ्जस्यम् । कृतनिदानत्वेन तस्या मिथ्यादृष्टित्वात् उद्वाहप्रसङ्गाच्च यक्षप्रतिमैन तत्र सम्भाव्यत इति विचारोऽपि न क्षोदक्षमः, अन्यथा सर्वेषामर्द्धचक्रवर्तिनां मिथ्यादृष्टित्वप्रसङ्गात्, तत्समये सुरूपवतां भर्तृणां यांच्याप्रसङ्गाच्च । न च तया तथा याञ्चा कृता, अपि तु शक्रस्तवेन ज़िनस्तुतिरेव कृता । अस्तु नाम प्रतिमाप्रतिपादनं परं अप्कायादिजीवोपमर्दनत्वेन हिंसासंभवात् हिंसायाश्च "सव्व पाणा सव्वे भूआ" इत्यादौ हिंसात्वावच्छेदेनानिष्टसाधनत्वप्रतिपादनात्, प्रतिमापूजाप्रतिपादनं नावहति सौष्ठवमिति नैव नोदनीयं, एवं सति दानादिक्रियाया अप्यभावापत्तेः, तस्मात् . जिनाज्ञैवान्वेषणीया । अपि च यतनया क्रियमाणा जिनार्चा न पापप्रयोजिका, प्रत्युत चित्तशुद्धिफलकत्वेन पुण्यादिप्रयोजिका । अर्चायां दानादाविव स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया असम्भवात् । यद्यप्ययतनया क्रियमाणा हिंसान्तर्भूतत्वेन पापप्रयोजिका तथापि भक्त्याऽविधिनापि विधीयमाना न तथा, भक्तिगुणेनाविधिदोषस्यापि निरनुबन्धिकृत्वात् । किञ्च आगमेऽपि सूर्याभदेवाद्य- . धिकारे सुमादिभिर्जिनार्चायाः प्रतिपादनान्नैवाशोभनं प्रतिमार्चाप्रतिपादनम् । न चPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 346