Book Title: Shastriya Purava Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 6
________________ [ २ ] नियमो भवति स करोतु, परं प्रतिक्रमणं तु चतुर्दश्यामेव करोति, पूर्णमास्यास्तु दैवसिकं करोतीति, यदि एवमपि तब न रोचते तर्हि हीनायां पूर्णमास्यां चतुर्दश्या घटिका आकर्ण्य पूर्णमास्यां निक्षेपः कार्यः, ततो जाता परिपूर्णा पूर्णिमा, हीना चतुर्दशी, तस्याः क्षयाभावात् त्रयोदश्या घटिकायाथतुर्दश्यां निक्षेपः कार्यः, ततः जाता परिपूर्णा चतुर्दशी, क्षीणा च त्रयोदशी जाता, अत एव तृतीयस्थानवर्तिन्या अपर्वरूपायात्रयोदश्याः क्षयो युज्यते इति, यदि च पूर्णमास्या वृद्धौ (द्धिः) किं कार्य पूर्वोक्तं ?, तद्वत् कार्य, द्वे चैव त्रयोदश्यौ कार्ये, कथमेवं?, सत्यं, परं चिरंतनसूरिभिः एवं क्रियते कार्यते च कथं ?, पूर्णिमास्यामावास्यो कदापि जैनागमाभिप्रायेण न वर्धिते, परंतु लौकिकशास्त्राभिप्रायेण तु ता दृश्यते, परं असूनृतत्वेन तद्विषयो नांगीकृतः, कथं ?, आगमेन सह विरोधातु, विरोधञ्चायं-वृद्धौ उत्तरा तिथिः कार्येति वचनात् एकैव उदयवती पूर्णिमा गृह्यते, सातू द्वितीयैव,न तु आद्या, आद्या तु सामान्या अपर्वरूपा च अत एव तस्या वृद्धेत्रयोदश्यामेव न्यासः क्रियते,, स्थाप्यते इत्यर्थः, एवमपि तव न रोचते तवं कुरु वर्द्धिताया आद्यपूर्णमास्या घटिका चतुर्दश्यां स्थाप्या, स्थापितत्वेन च वर्द्धिता चतुर्दशी, साप्यागमाभिप्रायेण द्वे न भवेतां, अत एव तस्या आद्याया - चतुर्दश्या घटिकाया त्रयोदश्यां संयोजना कार्या, एवं रीत्याऽपि आगमशैल्यापि अपर्वरूपा त्रयोदश्येव वर्धिता भवति, यद्येवमपि तत्र न रोचते तर्हि प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज इति, एवममुना प्रकारेणैव भाद्रपद शुक्लपचम्याः क्षये वृद्धौ च तृतीयस्थानवर्तिनः तृतीयायाः क्षयं वृद्धिं च कुरु मा कदाग्रहग्रथिलो भव, आद्य पंचमीं चतुर्थीस्थाने संस्थापय, द्वे चतुर्थ्यां कृत्वा आद्यां चतुर्थी परित्यज्य द्वितीयां भज इति। तुष्यन्तु सज्जना इति न्या येनेत्यलं चर्चया ।। पूर्णमासी तु मासे पूर्णे भवति ततो २ मास आयाति, पाक्षिकादिक्रिया तु चतुर्दश्यामेव कथं क्रियते ?, सत्यं, पूर्णिमांतर्गता, पाक्षिकादितपःप्रभृतिप्रतिक्रमणादिः सर्वक्रिया गीतार्थैचतुर्दश्यां नीता, ततस्तदिने एव पाक्षिकमतिक्रमणादि सर्वे क्रियते, परं पूर्णिमा तिथित्वेन नापहृता, किन्तु पूर्वोक्तक्रिया त्वपहृता, सापि पर्वतिथित्वेन प्रतिपादिताऽस्ति, अत एव 'सावणवहुलपक्ख' इति सिद्धांतवचनानुसारेण श्रावणकृष्णप्रतिपद आरभ्य पंचाशदिने पर्युषणा कार्या, दिनगणना स्वयं-श्रावण कृष्णप्रतिपदेकं पञ्चमीपर्यंत दिनपंचकं १ । २ । ३ । ४ । ५ एवं पष्ठ्या दशमी ६ । ७ । ८ । ९ । १० । एवमेकादश्या अमावास्यापर्यंत ११ । १२ । १३ । १४ । १५ । एवमेव दशभिः पंचकैः पर्युषणा कार्या, आह च श्रीकल्पसूत्रसामाचार्यां 'वासाणं सवीसइराए मासे इकते पज्जोसवई' तथा ' वासाणं सवीसइराए मासे वक्ते सत्तरीराइदिएहि सेसेर्हिति समवायांगे, तथा 'पक्खस्स अर्द्ध अमी मासस्सद्धं तु पक्खि होइ । सोलसदिणे न पक्खि नणु कायन्त्रं तु कइयावि ॥ १ ॥ पक्खिपडिकमणाओ सहियपहरम्मि अमी होइ । तत्थेव पञ्चकवाणं करेंति जिण (चंद ) व्यणाओ || २ || जहिआओ अमीओ लगाओ देवि पक्खसंगीसु । सहिपहरम्मि निच्चं करेंति पक्खियपडि कमणं || ३ || पन्नरम्मि य Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28