Book Title: Shastriya Purava
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
[८] स्योः क्षय त्रयोदश्या एव क्षयः कार्य इति वृद्धसामाचार्यां । यदुक्तम्-क्षये पूर्वा तिथि: कार्या, वृद्धी कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥१॥ 'जम्हा पुन्निमाखए तेरसिखो हवइ तम्हा पुन्निमावुड्ढीएवि तेरसी बुड्ढीजा इइ वयणं पुव्वमूरिहिं भणियं' इति वचनात् । तथा च जइ पव्वतिहिखओ तया कायब्बो पुवतिहीए, एवं आगमवयणं कहियं तेलु कनाहेहिं ॥ २॥ चउमासिमवरिसे वुड्ढी भवेज्जा पव्वतिहीए ठावियाणं पुवदिण मिल्लिया दोऽविय तत्थ दिणे ॥३॥ तथा । अट्टमी चउद्दसी पुन्निमा उद्दिट्ठा य पन्चतिही, एमु खओ न हविजइ इह क्यणाओ इति वचनात, आयरियावि एवमेव भन्नति, तंजहा-आसाढे कत्तियफग्गुणमासे खओ पुन्निमाए होइ,ता संखओ तेरसीए भणिओ जिणवरिंदेहि॥।॥ तथा द्वितीया पंचम्य
म्येकादशोचतूर्दशीषु यदि क्षयो भवेत्तदा तत्पूर्वायास्तिथेः कार्यः, यदुक्तं-बीयापञ्चमी अट्टमी एकारसी च च उद्दसी तासं खओ पुवतिहीओ, अमावासाएवि तेरसि, अमावास्यापूर्णमास्योः क्षये क्षयस्तु त्रयोदश्या एव । एवमेव भाद्रपदशुक्लपंचम्याः क्षय तृतीयायाः क्षयो बोध्यः । कस्मादेवं यत् भाद्रपदशुक्लपंचमीक्षये तृतीयायाः क्षयः क्रियते इति पृच्छसि तदुत्तरमेवं, चतुर्थी पर्वतिथित्वेन तस्याः क्षयाभावात् चिरंतनाऽऽचार्यैरादृतत्वात्, अत एवाधुनाप्येवमेवास्माभिः क्रियते । यदमास्यायाः क्षये प्रतिपदः क्षयः करोति तन्मतमपास्तं । यदुक्तं अमावासाएवि तेरसी,न तु पडवस्स इति,सत्यमेव, पुनः शिष्यो गुरुं पृच्छति-अथ पूर्णिमाद्धौ युष्माभिः द्वे त्रयोदश्यो कथं क्रियेते?, तस्योत्तरं-द्वे चतुर्दश्यो केनापि मूरिणा न कृते, नाऽपि कारिते, अत एव पूर्णिमावृद्धौ द्वे त्रयोदश्यौ अस्माभिः क्रियेते, कथं तृतीयस्थाने स्थिता त्रयोदशी वर्द्धिता पूर्वसूरिणेति,जैनटिप्पन के तावत् पर्वतिथीनां वृद्धिरेव न भवति. ततः परमार्थतस्त्रयोदश्येव वर्द्धिता तत्सत्यं, परं तत्कारणं कथ्यतां, कारणं तु चतुर्दश्याः वृद्धिः कदापि न भवति तदेकं कारणं पूर्वोक्तं तहा पुन्निमावुड्ढीए तेरसिवुड्ढी जायइइच्चाइ, एवमपि तव न रोचते तदा वर्द्धितपूर्णिमाम्याः घटिकायाः चतुर्दश्यां निक्षेपः कार्यः, साऽपि द्विगुणिता जाता, साप्येकैव क्रियते, न तु द्वे, अतः आद्या चतुर्दशीघटिका त्रयोदश्यां निक्षिप्ता, स्थापितेत्यर्थः, अत एव पूर्वसूरिभिस्त्रयोदशी वर्द्धिता, सा च अपर्वरूपेण गणिता, द्वितीया तु पर्वरूपैव गणिता, तस्मिन्नेव दिवसे पाक्षिकप्रतिक्रपणादितपः कुर्वन्ति मुनिसत्तमाः, तदनंतर पूर्णिमा, यदि च कल्याणकवासरः पर्वतिथिश्च एकत्राऽऽयाति तदा किं कुर्वन्ति ते ? तत् मे कथयतां, सत्यं, परमं चतुर्थदिनं यावदपि तपःपूर्तिः कार्यते, पश्चाद्यथाशक्तिः, शेषं तु क्षयतिथिवद्ज्ञातव्यमिति, एवं भाद्रपदशुक्लपंचम्यां वर्द्धितायामपि वर्धितपूर्णिमावदवसेयमिति, एवमेव सत्यं, गतशंकोऽहं जातांस्तथ्यधिकारे इति धर्माधिकारे तपःकरणनिश्चये परस्योपदेशः स्वस्य करणं च मुनिश्चितं कथितं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28