Book Title: Shastra Sandesh Mala Part 02
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 294
________________ अन्येषामिव भावानां, स्वसत्ता तबलाद्यतः / / अतः सञ्चिन्त्यतां सम्यक्, कथं नैकान्तसुन्दरः ? // 66 // एवं च सिद्धः सर्वज्ञ-स्तद्वाक्यात् जिन एव तु / तस्मादलं प्रसङ्गेन, सिद्धार्था हि यतो वयम् // 67 // कृत्वा ह्यदः प्रकरणं भुवनैकसारं, सर्वज्ञरत्नगतमोहविनाशहेतुः / यत्पुण्यमजितमनेन समस्तपुंसां, मात्सर्यदुःखविरहेण गुणानुरागः 68 a / / 2 // r // 3 // // षड्दर्शनसमुच्चयः // सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् / . सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते / दर्शनानि षडेवात्र मूलभेदव्यपेक्षया / देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा / / जैमिनीयं च नामानि दर्शनानाममून्यहो तत्र बौद्धमते तावद्देवता सुगतः किल / चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः / दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः / विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च समुदेति यतो लोके रागादीनां गणोऽखिलः / आत्मात्मीयस्वभावाख्यः समुदयः स संमतः क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या / स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते . // 4 // I // 6 // . w // 7 // , . 285

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310