Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४२)
प्रत सूत्रांक
||१०
-१६||
दीप
अनुक्रम
[५३४
-५४०]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) चूलिका [२], मूलं [१...], / गाथा || १०-१६ ||, निर्युक्ति: [ ३६९...], भाष्यं [६३...]
पत्तेरारभ्यामरणान्तम् 'तमाहुलके प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुः - अभिदधति विद्वांसः लोकेप्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहित जीवनशीलं, 'स' एवंगुणयुक्तः सन् जीवति 'संयमजीवितेन' कुशलाभिसंधिभावात् सर्वथा संघमप्रधानेन जीवितेनेति सूत्रार्थः ॥ १५ ॥ शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह - 'आत्मा खल्वि' ति खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि 'सततं' सर्वकालं 'रक्षितव्यः' पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह- 'सर्वेन्द्रियैः' स्पर्शनादिभिः 'सुसमाहितेन' निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाह-अरक्षितः सन् 'जातिपन्धानं' जन्ममार्ग संसारमुपैति - सामीप्येन गच्छति । सुरक्षितः पुनर्यथागममप्रमादेन 'सर्वदुःखेभ्यः' शारीरमानसेभ्यो 'विमुच्यते' विविधम्-अनेकैः प्रकारै| रपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १६ ॥ श्री हरिभद्रसूरिविरचितटीकोपसंहारः ।
यं प्रतीत्य कृतं तदूवक्तव्यताशेषमाह
मासेहिं अही अझवणमिणं तु अक्षमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ॥ ३७० ॥ भिर्मासै: 'अधीत' पठितम् 'अध्ययनमिदं तु अधीयत इत्यध्ययनम् इदमेव दुशवैकालिकाख्यं शास्त्रं, वेनाधीतमित्याह-आर्यमणकेन - भावाराधनयोगात् आरायातः सर्वहेयधर्मेभ्य इत्यर्थः आर्यश्वास मणक श्रेति विग्रहस्तेन, 'षण्मासाः पर्याय' इति तस्यार्यमणकस्य षण्मासा एव प्रव्रज्याकालः, अल्पजीवितत्वात्,
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[४२] मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः अथ वृत्तिकारः उपसंहारः क्रियते
~578~

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590