Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 14
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१] .→ “नियुक्ति: [१] + भाष्यं ] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१|| षणा ग्रासैषणा च, तत्र गवेषणे-अन्वेषणे एषणा-अभिलाषो गवेषणैषणा, एवं ग्रहणैषणा प्रासैपणाऽपि भावनीये, तत्र गवेषणैषणा उद्गमोत्पादनाविषयेति तद्भहणेनैव गृहीता द्रष्टव्या, ग्रासैषणा त्वभ्यवहारविषया, ततः संयोजनादिग्रहणेन सा गृहीष्यते, तस्मादिह पारि शेष्यादेषणाशब्देन ग्रहणैषणा गृहीता द्रष्टच्या, ग्रहणैषणाग्रहणेन च ग्रहणैषणागता दोषा वेदितव्याः, तथाविवक्षणात् , ततोऽयं भावार्थ:| उत्पादनादोषाभिधानानन्तरं ग्रहणेषणागता दोषाः शन्तिम्रक्षितादयोऽभिधातव्याः, ततः संयोजना वक्तव्या, तत्र संयोजन संयोजना या रसोत्कर्षसम्पादनाय सुकुमारिकादीनां खण्डादिभिः सह मीलनं, सा द्रव्यभावभेदाद् द्विधा, वक्ष्यति च-दव्ये भाचे संयोजणा य'इत्यादि, ततः प्रमाणं कवलसन्ख्यालक्षणं वक्तव्यं, चकारः समुञ्चये, स च भिन्नकमत्वात्कारणशब्दानन्तरं द्रष्टव्या, ततः, 'इंगाल धूम ति अङ्गारदोषो धूमदोपच यया भवति तथा वक्तव्यं, तदनन्तरं 'कारण चियैः कारणैराहारो यतिभिरादीयते यैस्तु न तानि कारणानि । च वक्तव्यानि, सूत्रे च विभक्तिलोप आपत्वात् , तदेवम् 'अष्टविधा' अष्टप्रकारा अष्टभिराधिकारः सम्बद्धेति भावार्थः, पिण्डनियुक्ति:पिण्डैषणानियुक्तिः ।। स्यादेतद्, एतेऽष्टावप्याधिकाराः किं कुतश्चित्सम्बन्धविशेषादायाताः उत यथाकय चिद्वक्तव्याः,? उच्यते, सम्बन्धविशेषादायाताः, तथाहि-पिण्टेपणाऽध्ययननियुक्तिर्वक्तुमुपक्रान्ता, पिण्डेषणाऽध्ययनस्य चत्वार्यनुयोगद्वाराणि, तयथा-उपक्रमो | निक्षेपोऽनुगमो नयश्च, तत्र नामनिष्पन्ने निक्षेपे पिण्डैपणाऽध्ययनमिति नाम, ततः पिण्ड इति अध्ययनमिति च व्याख्येयं, तत्राध्ययनमिति मागेव द्रुमपुष्पिकाऽध्ययने व्याख्यातम्, इह तु पिण्ड इति व्याख्येयं, तत एव एपणा, एपणा च गवेषणैषणा ग्रहणैषणा ग्रासैषणा च, गवेषणैषणादयश्च उद्गमादिविषयास्ततस्ते वक्तव्याइस्पष्टी पिण्डादयोऽर्थाधिकाराः ॥ तत्र प्रथमतः पिण्ड इति व्याख्यायते, व्याख्या च तत्वभेदपर्यायैः, अतः प्रथमतः पिण्डशब्दस्य पर्यायानभिधित्सुराह दीप अनक्रम ~14

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 376