________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१] .→ “नियुक्ति: [१] + भाष्यं ] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१||
षणा ग्रासैषणा च, तत्र गवेषणे-अन्वेषणे एषणा-अभिलाषो गवेषणैषणा, एवं ग्रहणैषणा प्रासैपणाऽपि भावनीये, तत्र गवेषणैषणा उद्गमोत्पादनाविषयेति तद्भहणेनैव गृहीता द्रष्टव्या, ग्रासैषणा त्वभ्यवहारविषया, ततः संयोजनादिग्रहणेन सा गृहीष्यते, तस्मादिह पारि शेष्यादेषणाशब्देन ग्रहणैषणा गृहीता द्रष्टच्या, ग्रहणैषणाग्रहणेन च ग्रहणैषणागता दोषा वेदितव्याः, तथाविवक्षणात् , ततोऽयं भावार्थ:| उत्पादनादोषाभिधानानन्तरं ग्रहणेषणागता दोषाः शन्तिम्रक्षितादयोऽभिधातव्याः, ततः संयोजना वक्तव्या, तत्र संयोजन संयोजना
या रसोत्कर्षसम्पादनाय सुकुमारिकादीनां खण्डादिभिः सह मीलनं, सा द्रव्यभावभेदाद् द्विधा, वक्ष्यति च-दव्ये भाचे संयोजणा य'इत्यादि, ततः प्रमाणं कवलसन्ख्यालक्षणं वक्तव्यं, चकारः समुञ्चये, स च भिन्नकमत्वात्कारणशब्दानन्तरं द्रष्टव्या, ततः, 'इंगाल धूम ति अङ्गारदोषो धूमदोपच यया भवति तथा वक्तव्यं, तदनन्तरं 'कारण चियैः कारणैराहारो यतिभिरादीयते यैस्तु न तानि कारणानि । च वक्तव्यानि, सूत्रे च विभक्तिलोप आपत्वात् , तदेवम् 'अष्टविधा' अष्टप्रकारा अष्टभिराधिकारः सम्बद्धेति भावार्थः, पिण्डनियुक्ति:पिण्डैषणानियुक्तिः ।। स्यादेतद्, एतेऽष्टावप्याधिकाराः किं कुतश्चित्सम्बन्धविशेषादायाताः उत यथाकय चिद्वक्तव्याः,? उच्यते, सम्बन्धविशेषादायाताः, तथाहि-पिण्टेपणाऽध्ययननियुक्तिर्वक्तुमुपक्रान्ता, पिण्डेषणाऽध्ययनस्य चत्वार्यनुयोगद्वाराणि, तयथा-उपक्रमो | निक्षेपोऽनुगमो नयश्च, तत्र नामनिष्पन्ने निक्षेपे पिण्डैपणाऽध्ययनमिति नाम, ततः पिण्ड इति अध्ययनमिति च व्याख्येयं, तत्राध्ययनमिति मागेव द्रुमपुष्पिकाऽध्ययने व्याख्यातम्, इह तु पिण्ड इति व्याख्येयं, तत एव एपणा, एपणा च गवेषणैषणा ग्रहणैषणा ग्रासैषणा च, गवेषणैषणादयश्च उद्गमादिविषयास्ततस्ते वक्तव्याइस्पष्टी पिण्डादयोऽर्थाधिकाराः ॥ तत्र प्रथमतः पिण्ड इति व्याख्यायते, व्याख्या च तत्वभेदपर्यायैः, अतः प्रथमतः पिण्डशब्दस्य पर्यायानभिधित्सुराह
दीप
अनक्रम
~14