Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
वै. पो. अर्पणम् ॥ अमुकदेवप्रीत्यर्थ यथाशक्ति अमुकदेवस्य कृतेनानेन मूलमन्त्रजपकर्मणा अमुकदेवः प्रीयतां न मम ॥ विशेषार्घः ॥ अर्धपात्रे जलमादाय तस्मिन्गन्धाक्षतपुष्पाणि प्रक्षिप्य तदुपरि सहिरण्यं पूगीफलं नालि - केरादि फलं वा निधाय केवलं गन्धाक्षतपुष्पादिसहितं जलं वा गृहीत्वा विशेषा दद्यात् । इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सुफलावातिर्भवेज्जन्मनि जन्मनि ॥ रूपं देहि जयं देहि देहि भाग्यं तथा प्रभो ! | पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ ॐ भूर्भुव खः अमुकदेवाय नमः विशेषार्धं समर्पयामि || स्तुतिपाठः || आवाहनं न जानामि न
१ श्रीशङ्कराचार्यविरचितमानसपूजास्तोत्रम् । रत्नैः कल्पितमासनं हिमजलैः स्नानञ्च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ॥ जातीचम्पकबिल्वपत्ररचितं पुष्पञ्च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पायसम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्गकाहलकलागीतञ्च नृत्यं तथा । साष्टाङ्ग प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोग
For Private and Personal Use Only
त. दे.
पूजा
१७

Page Navigation
1 ... 35 36 37 38 39 40 41 42