SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ वै. पो. अर्पणम् ॥ अमुकदेवप्रीत्यर्थ यथाशक्ति अमुकदेवस्य कृतेनानेन मूलमन्त्रजपकर्मणा अमुकदेवः प्रीयतां न मम ॥ विशेषार्घः ॥ अर्धपात्रे जलमादाय तस्मिन्गन्धाक्षतपुष्पाणि प्रक्षिप्य तदुपरि सहिरण्यं पूगीफलं नालि - केरादि फलं वा निधाय केवलं गन्धाक्षतपुष्पादिसहितं जलं वा गृहीत्वा विशेषा दद्यात् । इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सुफलावातिर्भवेज्जन्मनि जन्मनि ॥ रूपं देहि जयं देहि देहि भाग्यं तथा प्रभो ! | पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ ॐ भूर्भुव खः अमुकदेवाय नमः विशेषार्धं समर्पयामि || स्तुतिपाठः || आवाहनं न जानामि न १ श्रीशङ्कराचार्यविरचितमानसपूजास्तोत्रम् । रत्नैः कल्पितमासनं हिमजलैः स्नानञ्च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ॥ जातीचम्पकबिल्वपत्ररचितं पुष्पञ्च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पायसम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्गकाहलकलागीतञ्च नृत्यं तथा । साष्टाङ्ग प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोग For Private and Personal Use Only त. दे. पूजा १७
SR No.020661
Book TitleSarva Dev Samanyo Dev Pujan Prayog
Original Sutra AuthorN/A
AuthorAmrutlal Shastri
PublisherAmrutlal Trikamji Shastri
Publication Year
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy