Book Title: Sangha Kartvyadi Praja Samaja Kartavya Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३० ) अन्तर्दृष्टिं समाधाय, मत्स्वरूपविचारिणः । व्यञ्जयन्त्याऽऽत्मधर्म ते, ज्ञानानन्दमयं स्वकम्॥६११॥ जायन्ते पुण्यकर्माणि, सर्वविश्वस्य शान्तये । पापकर्माणि हेयानि, सर्वविश्वहितं कुरु ॥ ६१२ ॥ अन्नवस्त्रादिकं देयं, तद्योग्येभ्यो विशेषतः। यत्र तत्र गुणा ग्राह्या यस्य कस्यापि देहिनः ॥६१३॥ सद्गुणैः स्वोन्नतिः पूर्णा, दुर्गुणैः पतनं भवेत् । दुर्व्यसनैः स्वजीवस्य, विनिपातो नवेखलु ॥६१४॥ विश्वसेवास्ति सत्का, राऽऽत्मधर्मस्य सेवनात् । दुर्गुणानां विनाशेन-विश्वशान्तिस्तथोन्नतिः ॥६१५॥ साहाय्यं दुःखिजीवानां, कर्तव्यं स्वीयशक्तितः। विद्याधनादिभि गर्वः, कर्तव्यो न कदाचन ॥६१६॥ मैत्रीजावेन विश्वस्य, लोकैः सह प्रवर्तनम् । कर्तव्यं न्यायसम्पन्न-वित्तेन, भोजनादिकम् ॥१७॥ स्वागतं साधुवर्गस्य, कर्तव्यं वृद्धसेवनम् । अतिथे सेवनं कार्य, सेव्या निजोपकारिणः ॥६१८॥ यथा यथा कषायाणा-मुपशान्तिस्तथा तथा । वर्तितव्यं विशेषेण, निजाऽऽत्मशुद्धिहेतवे ॥ ६१९ ॥ अनीतिः परिहर्तव्या, वर्तितव्यं च नीतितः । स्वदोषाणां विनाशाय, यतितव्यं स्वार्यतः ॥२०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184