________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३० ) अन्तर्दृष्टिं समाधाय, मत्स्वरूपविचारिणः । व्यञ्जयन्त्याऽऽत्मधर्म ते, ज्ञानानन्दमयं स्वकम्॥६११॥ जायन्ते पुण्यकर्माणि, सर्वविश्वस्य शान्तये । पापकर्माणि हेयानि, सर्वविश्वहितं कुरु ॥ ६१२ ॥ अन्नवस्त्रादिकं देयं, तद्योग्येभ्यो विशेषतः। यत्र तत्र गुणा ग्राह्या यस्य कस्यापि देहिनः ॥६१३॥ सद्गुणैः स्वोन्नतिः पूर्णा, दुर्गुणैः पतनं भवेत् । दुर्व्यसनैः स्वजीवस्य, विनिपातो नवेखलु ॥६१४॥ विश्वसेवास्ति सत्का, राऽऽत्मधर्मस्य सेवनात् । दुर्गुणानां विनाशेन-विश्वशान्तिस्तथोन्नतिः ॥६१५॥ साहाय्यं दुःखिजीवानां, कर्तव्यं स्वीयशक्तितः। विद्याधनादिभि गर्वः, कर्तव्यो न कदाचन ॥६१६॥ मैत्रीजावेन विश्वस्य, लोकैः सह प्रवर्तनम् । कर्तव्यं न्यायसम्पन्न-वित्तेन, भोजनादिकम् ॥१७॥ स्वागतं साधुवर्गस्य, कर्तव्यं वृद्धसेवनम् । अतिथे सेवनं कार्य, सेव्या निजोपकारिणः ॥६१८॥ यथा यथा कषायाणा-मुपशान्तिस्तथा तथा । वर्तितव्यं विशेषेण, निजाऽऽत्मशुद्धिहेतवे ॥ ६१९ ॥ अनीतिः परिहर्तव्या, वर्तितव्यं च नीतितः । स्वदोषाणां विनाशाय, यतितव्यं स्वार्यतः ॥२०॥
For Private And Personal Use Only