________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२९ )
अर्हन् सिद्धस्तथा सूरि-चकश्च मुनिस्तथा । चारित्रं दर्शनं ज्ञानं, - तप श्चाऽऽत्मैव वस्तुतः ॥ ६०१ ॥ वात्मनश्चैव पर्याया अर्हत्सिद्धादिकाः खलु । आत्मन्येव सुखं पूर्ण, ज्ञात्वा सन्तोषवान् जय ||६०२ ॥ मदालम्बनयोगेन सर्वजातीयदेहिनाम् । आत्मोन्नतिक्रमप्राप्तिः, स्वान्तरे जायते खलु ॥६०३॥ मदाश्रयिमनुष्याणां योगः क्षेमं भवेत्सदा ।
9
अलक्ष्यं ह्यान्तरं तेषां स्वाऽऽत्मशुद्धिः प्रवर्धते ॥ ६०४ ॥ नास्तिक्यं संशयं त्यक्त्वा त्यक्त्वा च जडवादताम् । मदाश्रयप्रपन्नानां, सिद्धिः सुखं च जायते ॥ ६०५ ॥ मत्प्रतिपक्षिभूताश्च, मत्स्वरूपविश्वारकाः ।
मद्द्धर्मद्वेषिणः प्रान्ते, मच्चित्ता यान्ति सद्गतिम् ॥ ६०६ ॥ एकवारमपि व्यक्ता, रुचिः श्रद्धा ममोपरि । येषां तेषां जवेन्मुक्ति-रवश्यं प्रतिपक्षिणाम् ॥ ६० ॥ अन्तर्मुहूर्तमात्रं यैः, सम्यकूत्वं स्पर्शितं खलु । तेषां मुक्तिर्भवेन्नूनं, जवभ्रमणकारिणाम् ॥ ६०८ ॥ सदेवगुरुधर्माणां श्रद्धाप्रीतिप्रधारिणः । जैना यान्ति जिनत्वं ते, ज्ञानवैराग्यकर्मठाः ॥ ६८९ ॥ कोटिस्वार्थानपि त्यक्त्वा, क्षणतः साधुसंगतिम् । कुरुष्व श्रद्धया प्रीत्या, सद्भिरामा प्रकाश्यते ॥ ६१० ॥
For Private And Personal Use Only