________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२८ ) यादृशो यस्य जावोऽस्ति, तस्य ताक् फलं लवेत्। एवं ज्ञात्वा विवेकेन, सद्भा हृदि धारय ॥ ५९१ ॥ विचाराचारतुल्यं हि, फलं भवति देहिनाम् । त्यक्त्वाऽशुनं शुनं कुर्या-मा प्रमादं कुरु क्षणम् ॥५९२॥ यादृशो भवितुं कांक्षे-जनो भवति तादृशः । यानोत्साहबलस्थैर्या-न्मज्जन ईश्वरो भवेत् ॥५९३॥ स्वाऽऽत्मैष सिद्धबुद्धोऽस्ति, मोहावरणसंक्षयात्।। स्वस्य पराऽऽत्मतां ज्ञात्वा,पराऽऽत्मा जव सत्वरम्॥५९४॥ अन्तराऽऽत्मा विजानाति, स्वाऽऽत्मानं परमेश्वरम् । शुद्धाऽऽत्मा परमेशोऽस्ति, स्वं दीनं नैव भावय॥५९५॥ यद्यपि कर्मसंयोगी, तथाऽपि ज्ञानशक्तितः। अन्त हूतकालेन, मुक्तो भवति सर्वथा ॥ ५९६ ॥ ज्ञानध्यानक्रियाभक्ति-सेवाद्यसंख्यसाधनैः । आत्मा याति परब्रह्म-परमाऽऽत्मपदं ध्रुवम् ॥५९७॥ माभैषीः कर्मतः किश्चि-दाऽऽत्मना कर्म नश्यति । कर्मतोऽनन्तशक्तिहि, वर्तते जाग्रदाऽऽत्मनः ॥५९८॥ ज्ञानाऽऽत्मा कर्मभोक्ताऽपि, कर्मनाशं करोति वै । कर्मणां निर्जराथे हि; ज्ञानिनां भोगराशयः ॥५एणा चतुर्दशगुणस्थान-मारोह चोत्तरोत्तरम् । मोक्षप्रासादसोपान-माऽऽत्मशुद्धिगुणाऽऽस्पदम्॥६००॥
For Private And Personal Use Only