________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १२७ ) आत्मशुद्धोपयोगेन, यत्र तत्र यदा तदा । सर्वविश्व स्थलोकानां, मुक्तिर्भवति निश्चयः ॥ ५८१ ॥ विश्वोद्धाराय धर्मस्य, प्रचारो जगति ध्रुवम् । मया प्रक्रियते नूनं, विश्वदुःखविनाशकृत् ॥ ५८२ ॥ अधर्म दुःखनाशार्थ, धर्मसंस्थापनाय मे । जन्माऽमूतीर्थकृन्नाना, विश्वस्य शान्तिहेतवे ॥५८३ ॥ यदा हि धर्मतीर्थस्य, नाशो जवति तत्तदा । परेश्वरस्य तीर्थस्य, - कारिणो जन्म जायते ॥ ५८२ ॥ पापादुःखं सुखं पुण्यात्, स्वर्गश्च नृजवादिकम् । दर्शनज्ञान चारित्रं, मोक्षमार्गों मयोच्यते ॥ ५८५ ॥ मां जजन्ति च ये मुत्यै, मुकिं यान्ति च ते ध्रुवम् । स्वर्गार्थं मां जजन्तो ये, स्वर्ग यान्ति सुनिश्चयः ५८६ मज्जनाः स्वदशायुक्ता निष्कामिनश्च कामिनः । आत्मशुद्धिं प्रकुर्वाणा - जवन्ति मुक्तिसम्मुखाः ॥५८७॥ विद्यार्थी लजते विद्यां स्त्रीकामो लभते स्त्रियम् । विद्यार्थी लज्जते वित्तं, यशोऽर्थी लजते यशः ॥ ५८८ ॥ राज्यार्थी लते राज्यं, पुण्यार्थी पुण्यभाग् भवेत् । धर्मार्थकाममोक्षाणां प्राप्तिर्मे भक्तितो जवेत् ॥ २८९ ॥ प्रपद्यन्ते यथा ये मां, यादृग्भावेन देहिनः । तादृग्भावेन जायन्ते यथाभावस्तथाफलम् ॥५९० ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only