________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३१ )
कर्तव्या स्वाऽऽत्मनः शुद्धिः, सर्वोपायैर्विवेकिभिः । आत्मशुद्धिं विना विश्व - सेवाकर्म तु दुर्लभम् ६२१ निर्विकल्पदशा प्राध्या, निर्विकल्पं सुखं भवेत् । ज्ञानानन्दमयः पूर्ण - आत्मा प्राप्यो निजाऽऽत्मना६२२ मदाज्ञापालका लोका, आत्मविश्वासियोगिनः । सर्वशक्तिप्रकाशार्थ, शक्ता भवन्ति सर्वथा ॥ ६२३ ॥ आत्मन्येव सुखं शान्तिं, निश्चित्य चोपकारिणः । साताऽसातविपाकानां, जोक्तारः समजावतः ॥ ६२४ || पूर्ण मां हृत्सु धर्तार, आत्मवीर्यप्रकाशकाः । सर्वसङ्गेषु निर्लेपा मज्जना यान्ति मत्सुखम् ||६२५॥ जीवादिनवतत्त्वानां पूर्ण श्रद्धाप्रधारकाः । सदेवगुरुधर्माणां श्रद्धावन्तः सुखार्थिनः ॥ ६२६ ॥ जैनार्थ जैनधमार्थ, जैनसंघाय मज्जनाः । कुर्वन्ति स्वार्पण सर्व - माऽऽत्मोत्साहात्प्रवर्त्तिताः ॥१२७॥ मत्तद्भेदं न कुर्वन्ति, संघसेवासु तत्पराः । मज्जैना आत्मनः पूर्ण-ज्ञानानन्दं प्रविदन्ते ॥ ६२८॥ मनोवाक्काययोगानां, सर्वशक्तिप्रकाशकाः । मनोवाक्काय पावित्र्य-धारका दोषवारकाः ॥ ६२९ ॥ सर्वधर्मप्रवेत्तारः, सर्वकर्मप्रवेदिनः । द्रव्यं क्षेत्रं च कालं च, भावं ज्ञात्वा प्रवर्त्तकाः ||६३०||
For Private And Personal Use Only