________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३२ ) ययोग्यं तत्प्रकुर्वन्ति, स्वाऽऽत्मानन्दरसार्थिनः। आत्मानन्दरसोन्मत्ता निश्चयव्यवहारिणः ॥६३१॥ सर्वैर्नयैर्हि तत्वज्ञा मछुद्धातः प्रवर्तकाः। सर्वविश्वोपकारार्थ, सेवाभक्तिविधायिनः ॥ ६३२ ॥ प्राप्तं मच्छरणं यैस्ते, यान्ति मुक्तिं न संशयः। पापेष्वपिमहापापा मुक्तिं यान्ति मदाश्रयात् ॥६३३॥ मयि न्यस्य मनो लोकाः, सर्वकार्यस्य कारिणः । निःसंगा आन्तरा भूत्वा, जिना बुद्धा भवन्ति ते ६३४ ममोपदेशवेत्तार-स्तदनुसारबर्तिनः । स्वाधिकाराद् यथाशक्ति, प्रान्ते मुक्ता नवन्ति ते ६३५ सत्यं श्रद्दधते लोका-मवासि शिवार्थिनः । मज्जैनास्तेऽवगन्तव्या आर्या दि जैनधर्मिणः ॥६३६॥ वीतरागदशां यान्ति, शुद्धोपयोगधारिणः । जन्ममृत्युजरातीता भवन्ति क्षीणमोहकाः ॥६३७॥ आत्मार्पणं हविब्रह्म, स्वाऽऽत्माग्नावाऽऽत्मना हुतम् । शुद्धाऽऽत्मैव प्रगन्तव्य-आत्मधर्मसमाधिना ॥६३८॥ कदाऽपि दुर्गतिनैव, सर्वथा मम रागिणाम् । मम श्रद्धालुलोकाना-मुन्नतिरान्तरा नवेत् ॥ ६३९॥ देवानां सर्वदेवीना-मिन्द्राणां धर्मदायिनः। विश्वस्मिन् सर्वजीवानां, सुखशान्तिप्रदेशिनः॥६४०॥
For Private And Personal Use Only