Book Title: Risht Samucchaya
Author(s): Durgadevacharya, A S Gopani
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 8
________________ ॥ सिंघीजैनग्रन्थमाला संपादकप्रशस्तिः ॥ 1 स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नाम्नी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीन नृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः ॥ मुञ्ज-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः ॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य रूप लावण्य सुवाक्सौजन्यभूषिता ॥ क्षत्रियाणी प्रभापूर्ण शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ट्द्वैव जनो मेने राजन्यकुलजा ह्यसौ ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवी हंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योति भैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान् बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशोर्बाल्ये गुरु-तातो दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥ Jain Education International 9 २ For Private & Personal Use Only ३ ४ ५. तथा च भ्रान्त्वा नैकेषु देशेषु सेवित्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्त्वगवेषिणा ॥ अधीता विविध भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रत्र - नूतनकालिकाः ॥ 'तेन प्रकाशिता नैके ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः ॥ स बहुभिः सुविद्भिस्तन्मण्डलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ तस्य तां विश्रुतिं ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहमदाबादे राष्ट्रीयशिक्षणालयः । विद्यापीठ इति ख्यातः प्रतिष्ठितो यदाऽभवत् ॥ आचार्यत्वेन तत्रोच्चैर्नियुक्तः स महात्मना । रस-मुनि-निधीन्हेव्दे पुरा तत्वा ख्य मन्दिरे ॥ वर्षाणामष्टकं यावत् सम्भूय तत् पदं ततः । गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् ॥ तत आगत्य सँलो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो तेन स्वराज्यपर्वणि ॥ क्रमात् ततो विनिर्मुक्तः स्थितः शान्तिनिकेतने । विश्ववन्द्यकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंधी पदयुतं जैन ज्ञान पीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासी पदेऽधिष्टातृ सञ्ज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाङ्मयम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघी कुलकेतुना । स्वपितृश्रेयसे ह्येषा प्रारब्धा ग्रन्थमालिका ॥ अथैवं विगतं तस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासाय प्रवृत्तिषु प्रयस्यतः ॥ बा-रन- नवे द्वेदे मुंबईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मितौ । कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता । भारती य पदोपेत विद्या भवन सञ्ज्ञया ॥ ३० २८ २९ ३१ हूतः सहकाराय सुहृदा स मुनिः कृतौ । ततः प्रभृति तत्रापि सहयोगं प्रदत्तवान् ॥ तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्द-निध्य-चन्द्रान् क्रमे विहिता पुनः । एतद्ग्रन्थावली स्थैर्यकृत् तेन नव्ययोजना | परामर्शात् ततस्तस्य श्रीसिंघी कुलभास्वता । भा विद्या भ व ना येयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ दैवादल्पे गते काले सिंघीवर्यो दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्य प्रगत्यर्थं यत्नशीलैस्तदात्मजैः । राजेन्द्रसिंहमुख्यैश्च सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोक पितुर्नाम्ना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठशे गुणश्रेष्ठो ह्यर्द्धलक्षं प्रदत्तवान् ॥ ग्रन्थमालाप्रसिद्ध्यर्थं पितृवत्तस्य कांक्षितम् । श्रीसिंघीबन्धुभिः सर्वं तद् गिराऽनुविधीयते ॥ विद्वज्जन कृताह्लादा सच्चिदानन्ददा सदा । चिरं नन्द्रत्वियं लोके जिनविजयभारती || ६ ७ & ९ १० งง १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 290