Book Title: Pundarik Shikhari Stotra aparnam Shatrunjaya Mahatirth Paripatika
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
“શ્રી પુંડરીકશિખરીસ્તોત્ર' અક્ષરનામ “શ્રી શત્રુંજય મહાતીર્થપરિપાટિકા’
૨૯૯
चन्द्रानन-प्रभृतिनित्यजिनान्वितानां सद्विशतेविहरतां जिनपुङ्गवानाम् । यत्रोच्चकैर्भुवनमस्ति निरस्तदोषं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१४॥ पञ्चापि पाण्डुतनया सहिता जनन्या कुन्ताख्यया शिवमगुः शिखरे यदीये । तन्मूर्तयः षडिति शासति यत्र लेप्याः श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१५॥ यत्र प्रियालुरिति चैत्यतरुचिरंत: श्रीसंघपुण्यमहिमाद्भुत दुग्धवर्षाम् ।। शस्तं समस्त्यनुपमाख्यसरोवरं च श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१६॥ श्रीपादुकां भगवतः प्रणिपत्य यत्र भालस्थले तिलकिता नखजैर्मयूखैः । भव्या भवन्ति सुभगाः शिवसौख्यलक्ष्म्याः । श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१७॥ हिंसाजुषोऽपि पशवोऽपि मयूरमुख्याः स्पृष्ट्वा यदीयशिखरं परिपूतदेहाः । आस्वादयन्ते तरसा सुरसंपदोऽपि श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१८॥ द्वाविंशतिजिनवरा अजितादयस्ते स्वस्वप्रभान्वितसपादुकलेप्यबिम्बैः ।। अत्रैयरुः श्रुतिमति द्रढयन्ति यत्र श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१९॥ वामे च पार्श्व इह सत्यपुरावतारः स्याद् दक्षिणे शकुनिकाङ्कितः सद्विहारः । अष्टापदो भगवतः किल यत्र पृष्ठे श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16