Book Title: Pundarik Shikhari Stotra aparnam Shatrunjaya Mahatirth Paripatika
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
૨૯૮
નિર્ઝન્ય ઐતિહાસિક લેખ-સમુચ્ચય-૧
श्रीमूलनायकजिनः प्रणतः स्तुतो वा संपूजितश्च भविकैर्भवकोटिबद्धम् । यत्रोच्छिनत्ति सहसा किल कर्मजालं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥७!! अष्टोत्तरे च किल वर्षशते व्यतीते श्रीविक्रमादथ बहुद्रविणव्ययेन । यत्र न्यवीविशत जावडिरादिदेवं' श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥८॥ मम्माणनाममणिशैलतटीसमुत्थज्योतीरसाख्यवररत्नमयश्च यत्र । दृष्टोप्यपूर्व इव भाति युगादिदेव: श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥९॥ यत्राचिते भगवतीह करौ कृतार्थों वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१०॥ यत्रादिमो भगवतः किल दक्षिणाङ्गे वामे च जावडिनिवेशितमूर्तिरन्यः । श्रीपुण्डरीकयुगलं भवभीतिभेदी श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥११॥ यत्राद्यदेवगृहदक्षिणबाहुसंस्थं श्रीपार्श्वनाथभवनं समरागरस्य । पुण्यप्रकर्षमिवविश्वकृतः प्रमोदं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१२॥ इक्ष्वाकु-वृष्णिकुलजामुनिकोटिकोट्यः संख्यातिगा: शिवसुखश्रियमत्र भेजुः ।। इत्याह यत्र तिलकं किल कोटिकोटयः' श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16