Book Title: Pramannay Tattvalok
Author(s): Shobhachandra Bharilla
Publisher: Aatmjagruti Karyalay

View full book text
Previous | Next

Page 174
________________ बंगाल संस्कृत एसोसिएशन की प्रथमा परीक्षा के प्रश्नपत्र सन् १६३६ पूर्णसंख्या – १०० । समयः १२-४। [सर्वे प्रश्नाः समानमानार्हाः । पञ्च एव प्रश्नाः समाधातव्याः । ] १ । स्वमते कानि प्रमाणानि ? को वा नयः ? किञ्च तत्त्वम् ? एतत् सर्व्वं सूत्राण्युल्लिख्य वैशद्येन लेख्यम् । २ । को वा अवग्रहः ? का च ईहा ? कीदृशो व्यपदेशभेद: ? किञ्च अवधिज्ञानम् ? एतत् सर्व्वं सन्दर्भतो विशदीकृत्य लेखनीयम् । ३ । “उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः” ; " न तु त्रिलक्षणकादिः " ; "व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथा तदनुपपत्तेः " - सूत्राणामेषां ससङ्गतिकं व्याख्यानं कुर्व्वन्तु । ४ । स्वमते अभावः कतिविधः ? तेषां सार्थक्यं लक्षणानि चोल्लेख्यानि । ५। का विरुद्धोपलब्धि: ? सा कतिविधा ? सूत्रमुल्लिख्य स्पष्टतया लेखनीया । ६ । किं तावद् वचनलक्षरणम् ? किं तस्यात्र प्रयोजनम् ? किंवा शब्दलक्षणं तत्प्रामाण्यच ? तत् सर्व्व सूत्रमुल्लिख्य व्याकरणीयम् ।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178