Book Title: Pramannay Tattvalok
Author(s): Shobhachandra Bharilla
Publisher: Aatmjagruti Karyalay

View full book text
Previous | Next

Page 176
________________ [३] ४। साधर्म्य-वैधर्म्यदृष्टान्तानां सोदाहरणं सूत्राण्युल्लिख्य व्याख्यायन्ताम् । ५। प्रागभाव-प्रध्वंसाभाव-व्याप्य-व्यापकजातीनां सोदाहरणानि सूत्राणि समुद्धृत्य तानि व्याख्यायन्ताम् । ६। वर्णपदवाक्यात्मकं वचनम् ; स च द्वधा लौकिको लोकोत्तरश्च ; स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः, इत्येतेषां सूत्राणां सोदाहरणा व्याख्या विधेया श्रीमद्भिः । ७। इतरथापि संवेदनात्; युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासौ इति वचो न चतुरस्रम् प्रतिपर्यायं प्रतिपाद्य पर्यनुयोगानां सप्तानामेव सम्भवात्-एतेषां सूत्राणाम् उदाहरणमुखेन व्याख्यानं कुर्वन्तु श्रीमन्तः । .... । यत् प्रमाणेन प्रसाध्यते तदस्य फलम् : प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः; सांव्यवहारिकप्रत्यक्षमिव यदा भासते तत्तदाभासम् एतेषां सूत्राणां साशयं व्याख्यानं कार्य श्रीमद्भिः। । शब्दस्य नित्यत्वानित्यत्वसाधने सूत्राणि प्रदर्श्य स्वमते सिद्धान्तः प्रदर्शनीयः। १०। स्वमते किं निर्वाणलक्षणम् ? को वा वीतरागः, अवीतरागश्च कः इत्येतत् सर्व ग्रन्थतो वैशयन लेखनीयम् ।

Loading...

Page Navigation
1 ... 174 175 176 177 178