Book Title: Praman Naytattvalokalankar Ratnakaravatarika Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas Publisher: Dharmabhyuday Press View full book textPage 6
________________ "शिवाद्वैतं वदन् बन्धः पुरे धवलके द्विजः । काश्मीरसागरो जिग्ये वादात् सत्यपुरे पुरे ॥ ३९ ॥ तथा नागपुरे क्षुण्णो गुणचन्द्रो दिगम्बरः ।। चित्रकूटे भागवतः शिवभूत्याख्यया पुनः ॥ ४० ॥ गङ्गाधरो गोपगिरौ धरायां धरणीधरः । पद्माकरो द्विजः पुष्करिण्यां च वाग्मदोद्धरः ॥ ४१ ॥ जितश्च श्रीभृगुक्षेत्रे कृष्णाख्यो ब्राह्मणाग्रणीः । एवं वादजयोन्मुद्रो रामचन्द्रः क्षितावभूत्" ॥ ४२ ॥ एवं च विश्वस्मिन्नपि विश्वे वादिमतङ्गजशार्दूलत्वेन परां प्रसिद्धि, समासादितवतस्तान् सुयोग्यतयाऽतिप्रसन्नचित्ता गुरवो 'देवसूरि' इति नामदानपूर्वकं विक्रमात् ११७४ वर्षे सूरिपदे न्यवीविशन् । एभिर्वादिप्रवरैरणहिल्लपुरपत्तने श्रीसिद्धराजजयसिंहक्षितिपतेर्नानाशास्त्रविशारदैरनेकैः प्रामाणिकप्रकाण्डैर्मण्डितायां चतुरङ्गायां परिषदि तर्ककर्कशैरनल्पैर्विकल्पकल्पनाजालैः पराभूतिं प्रापितश्चतुरशीतौ सभा लब्धजयप्रतिष्ठोऽपि कुमुदचन्द्रनामा दिगम्बराचार्यः, समर्थितश्च सयुक्तिसूक्तिकं नारीनिर्वाणविधिः, प्रभावमापादितं श्वेताम्बरं शासनम् , समुत्तम्भितश्च स्वकीयो विमलो यशःस्तम्भः । तदानीं च सभामध्यमध्यासीनैरन्यगच्छीयैरपि बहुभिर्जगद्विख्यातैः श्रीमद्धेमचन्द्राचार्यप्रभृतिभिः सूरिभिः, अप्रतिबध्नद्भिर्निजं कवित्वकौशलं, परां स्तुतिमुपनीता १ " श्रीदेवसूरिरपरश्व जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये" इति गुर्वावल्यां श्रीमुनिसुन्दरसूरयोऽपि ।। २ “वेदाश्वशङ्करे वर्षे सूरित्वमभवत् प्रभोः” इति प्रभावकचरित्रे । ३ "शरवेदेश्वरे वर्षे कार्तिक पूर्णिमानिशि । ___जन्नाऽभवत्प्रभोोमवाणशम्भौ व्रतं तथा” ॥ ८४८ ।। इति प्रभावकचरित्रे श्रीहेमचन्द्राचार्यप्रबन्धगतश्लोकेन हेमचन्द्राचार्याणां वादिश्रीदेवसूरित्रमानकालिकत्वं सुप्रतीतम् ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 290