Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 5
________________ अर्हम् प्रस्तावना। कः खल्वार्हततत्त्वाभियुक्तः, तार्किकचकचक्रवर्तित्वेन, प्रतिवादिभयङ्करत्वेन च सुविश्रुतानां मूलग्रन्थमेतं प्रणेतृणां वादिश्रीदेवसूरीणां सुविहित-सुगृहीतेन नामधेयेन नास्त्यत्यन्तं परिचितः । एतेषां जन्म विक्रमार्का वह्नि-वेद-चन्द्र-भूमिप्रमिते (११४३) वर्षे गूर्जरदेशान्तगते मड्डाहृतनाम्नि नगरे प्राग्वाटवंशमुक्तोपमस्य वीरेनागाह्वयस्य श्रेष्ठिनो जिनदेवीनाम्न्या गृहिण्याः कुक्षौ समजनिष्ट । प्रददे चैषां पितृभ्यां पूर्णचन्द्र इति नाम । पूर्वपुण्योदयवशेन निसर्गत एव संसाराद् विरक्तचित्तैस्तैः, परित्यज्य मोहसाम्राज्यशालिनी वैभविकी मूछौं, श्रीमन्मुनिचन्द्रसूरीणां समीपे विक्रमादित्याद् द्विपञ्चैकेन्दुसंख्ये(११५२) संवत्सरे आहती दीक्षा प्रतिपेदे । समतिष्ठिपंश्च दीक्षासमये गुरवस्तेषां रामचन्द्र इति नाम । स्तोफेनैव कालेनाऽचिन्त्यप्रतिभाप्रकर्षवशतस्तैः समभ्यस्य सर्वविषयाणि शास्त्राणि, संप्राप्य वादविद्यायां परां काष्ठां, विहृत्य चानेकेषु देशेषु, महतीषु समासु पराजयं लम्भिता नानाविधाः प्रतिवादिविशारदाः; यत्प्रभावकचरित्रे तच्चरित्रप्रतिपादनपरे एकविंशे शृङ्गे १ "शिखिवेदशिवे जन्म" इति प्रभावकचरित्रे । २ यत्तु निर्णयसागरमुद्रितस्य प्रमाणनयतत्त्वालोकालङ्कारभाषानुवादपुस्तकस्य प्रस्तावनायां देवसूरिपतुर्नाम ' नागदेव' इति व्यलेखि; तच्चिन्त्यम् , "सवृत्तो जीवनच्छायो राजमानः स्वतेजसा । प्राग्वाटवंशमुक्ताऽऽसीद् वीरनागाभिधो गृही" ॥ ७ ॥ इति श्रीप्रभावकचरित्रे स्पष्टं 'वीरनाग' इत्युल्लेखात् । ३ “ दीक्षा युग्मशरेश्वरे" इति प्रभावकचरित्रे ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 290