Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 16
________________ मपरोक्षम् । अदसा महामोहे ध्रियमाणे स्वकुलोच्छेदकासा कथकारं घटताम् । यदि पुनर्विवेकोपरोधपदादेकदेशस्य विवेकस्यादसा परामर्शस्तदापि स वा कथं स्वकुलोच्छेदाय यतताम् । एवमाद्यनेका मूलकारसिद्धान्तानुगुणाः पाठा बहव इह समुचितं समुल्लिविता मन्ये विदुषां सन्तोषाय सम्पत्तारः । मूलकार इव कविराभरणकारोऽपि काममद्वैतसिद्धान्तस्थापितान् सिद्धान्तान् स. गृह्णानोऽपि वैष्णवसिद्धान्तादप्रच्युतः प्रतिभाति । मूलकवयश्च श्रीकृष्णमिश्रयतिप्रवराः क्रिस्त्वब्दीयैकादशशताब्द्यां लब्धविजया इति चरित्रस्थितिः । जितं चानेन प्रबोधचन्द्रोदयेन, यद् वेदान्तदेशिकाचार्यचरणानां सहस्पसूर्योदयस्य मातृकाभूयमवाप्य विचित्रः खलु वैखरीविलासः प्राकाशि । महाकविश्रीहर्षस्य द्वादशशतकजीविनः, श्रीमाधवाचार्यस्य चतुर्दशशतकावजयिनश्च काममेते चन्द्रोदयप्रभवः कवयः स्वयमुपनीच्या अपि व्यनयन्त । तथाहि नैषधे श्रीहर्षः "अमिहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्डूकम् । प्रज्ञापौरुषनिःस्वानां जीवो नस्पति जीविकाम् ॥" (स० १७, श्लो० ३९.) प्रबोधचन्द्रोदये "अमिहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ।।" (अहः २. लो० २५.) सर्वदर्शनसबाहेऽपि तुल्यमेव चार्वाकदर्शने । प्रबोधचन्द्रोदये "त्याज्यं सुखं विषयसङ्गमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा ।। वीहीन् जिहासति सिसोतमतण्डुलाख्यान को नाम भोस्तुषकणोपहिताम् हितार्थी ॥" (महः २. श्लो० २२.) तुल्यमेव सर्वदर्शनसङ्कहेऽपि धार्वाफदर्शने । एवं विचिन्त्यमाने चन्द्रोक्ष्यीयपाठे स्वस्मिन्नेव व्याख्यातृरुचिभेदात् कचिदधिकं कापि रिक्तं कुत्रचित् पद्यस्थाने तदेव गवमित्यादयो भवन्ति मैके विकाराः शस्यदर्शनाः । तथाहि भरतवाक्ये

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 249