________________
मपरोक्षम् । अदसा महामोहे ध्रियमाणे स्वकुलोच्छेदकासा कथकारं घटताम् । यदि पुनर्विवेकोपरोधपदादेकदेशस्य विवेकस्यादसा परामर्शस्तदापि स वा कथं स्वकुलोच्छेदाय यतताम् । एवमाद्यनेका मूलकारसिद्धान्तानुगुणाः पाठा बहव इह समुचितं समुल्लिविता मन्ये विदुषां सन्तोषाय सम्पत्तारः । मूलकार इव कविराभरणकारोऽपि काममद्वैतसिद्धान्तस्थापितान् सिद्धान्तान् स. गृह्णानोऽपि वैष्णवसिद्धान्तादप्रच्युतः प्रतिभाति । मूलकवयश्च श्रीकृष्णमिश्रयतिप्रवराः क्रिस्त्वब्दीयैकादशशताब्द्यां लब्धविजया इति चरित्रस्थितिः । जितं चानेन प्रबोधचन्द्रोदयेन, यद् वेदान्तदेशिकाचार्यचरणानां सहस्पसूर्योदयस्य मातृकाभूयमवाप्य विचित्रः खलु वैखरीविलासः प्राकाशि । महाकविश्रीहर्षस्य द्वादशशतकजीविनः, श्रीमाधवाचार्यस्य चतुर्दशशतकावजयिनश्च काममेते चन्द्रोदयप्रभवः कवयः स्वयमुपनीच्या अपि व्यनयन्त । तथाहि नैषधे श्रीहर्षः
"अमिहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्डूकम् । प्रज्ञापौरुषनिःस्वानां जीवो नस्पति जीविकाम् ॥"
(स० १७, श्लो० ३९.) प्रबोधचन्द्रोदये
"अमिहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ।।"
(अहः २. लो० २५.) सर्वदर्शनसबाहेऽपि तुल्यमेव चार्वाकदर्शने । प्रबोधचन्द्रोदये
"त्याज्यं सुखं विषयसङ्गमजन्म पुंसां
दुःखोपसृष्टमिति मूर्खविचारणैषा ।। वीहीन् जिहासति सिसोतमतण्डुलाख्यान को नाम भोस्तुषकणोपहिताम् हितार्थी ॥"
(महः २. श्लो० २२.) तुल्यमेव सर्वदर्शनसङ्कहेऽपि धार्वाफदर्शने । एवं विचिन्त्यमाने चन्द्रोक्ष्यीयपाठे स्वस्मिन्नेव व्याख्यातृरुचिभेदात् कचिदधिकं कापि रिक्तं कुत्रचित् पद्यस्थाने तदेव गवमित्यादयो भवन्ति मैके विकाराः शस्यदर्शनाः । तथाहि भरतवाक्ये