________________
॥श्रीः॥ निवेदना।
इदं प्रबोधचन्द्रोदयस्य श्रीकृष्णमिश्रयतिविरचितस्य श्रीमत्परमहंसपरिव्राजकश्रीमत्प्रकाशतीर्थभगवत्पूज्यपादशिष्येण गोविन्दामृतभगवता कृतया नाटकाभरणव्याख्यया समेतस्य प्रकाशनम् । मधुरमधुरया शैख्यापि वेदान्तार्थतत्त्वनिगमनपरे प्रबोधचन्द्रोदये प्रतिपाद्यमानोऽर्थो वस्तुमहिम्ना बाढं निष्कृष्टा नैका व्याख्याः समपेक्षत इति निश्वप्रचम् । असाक्षात् प्रतिपाद्यमानं तत्त्वं मुखतः स्थितो मधुरिमा मापहार्षीदिति कूलङ्कषा व्याख्या यष्ठिरिव वृद्धस्य परिशीलनपरस्य सुदृढमवलम्बाय महते । भिन्नरुचिवशाद् व्याख्यातृभिः परिकल्प्यमानाः परमार्थतो नाटककविनैव समुट्टङ्किता वा पाठा नैके प्रादुष्पन्ति । अतोऽत्र नाटके कृतपदैः समुचितस्य विवरणस्य समुत्कण्ठमानैरलमिदमाभरणमुपशान्तये ध्रियमाणम् । निर्णयसागरमुद्रणयन्त्रालयात् चन्द्रिकया प्रकाशेन च व्याख्याभ्यां मुद्रितस्य सम्प्रति प्रचम्चूर्यमाणस्य पुस्तकस्य दिशा बहव इह सन्ति विमर्शनीयाः पाठा विचारसहचेतसां प्राद्याः, यत एतदाभरणमवश्यमस्य नाटकस्य भविता किमप्यद्वितीयं व्याख्यानम् । स्थालीपुलाकन्यायेन विरुद्धं किञ्चित् स्थलमुद्धृत्य प्रदर्श्यते निर्णयसागरीयः पाठः
"विद्याप्रबोधोदयजन्मभूमि
राणसी ब्रह्मपुरी निरत्यया । असौ कुलोच्छेदविधि चिकीर्षुनिर्वस्तुमत्रेच्छति नित्यमेवम् ॥"
(मरः २. श्लो० १२.) नाटकाभरणीयः पाठः
"विद्याप्रबोधोदयजन्मभूमि
राणसी ब्रह्मपुरी दुरत्यया । असौ कुलोच्छेदविधि चिकित्सु. निर्वस्तुमत्रेच्छति नित्यमेव ॥"
(अहः २. श्लो० १२.) महामोहस्य वाराणस्यां सर्वात्मनावस्थानस्य विवेकोपरोधं कारणं सिपा. भविषोः कुलोच्छेदविधिचिकित्साचिकीर्षयोः कतराभ्यहितेति विचारयतामिद