Book Title: Panchsangrah
Author(s): Amitgati Acharya, Darbarilal Kothiya
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 6
________________ अमितगतिः। विच्छिरोमणिरयम्महानुभावः परमारवंशावतंश-महाराजमुञ्जस्यराज्येऽभूदिति तत्प्रशस्त्या ज्ञायते । महाराजमुञ्जः षट्त्रिंशदधिकसहस्राब्दपूर्वीदष्टसप्तत्यधिकसहस्राब्दपर्यन्तं राज्यञ्चकार तथाहि विक्रमाद्वासरादष्ट मुनिव्योमेन्दुसंमिते । वर्षे मुञ्जपदे भोजभूपः पट्टे निवेशितः ॥ मुञ्जस्यराज्याभिषेकः कदा बभूवेति न ज्ञायते किन्तु तस्य घट्त्रिंशदधिक सहस्राब्दे लिखितमेकं दानपत्रं प्राप्तमस्ति तेन ज्ञायते यत्तत्पूर्व तस्य राज्याभिषेको बभूव । महात्मनाऽमितगतिना पञ्चाशदधिकसहस्राब्दे (१०५०) सुभाषितरत्नसंदोहः रचितः । धर्मपरीक्षा च सप्तत्यधिकसहस्राब्दे (१०७०), पश्चाच्चायम्पञ्चसंग्रहः त्रिसप्तत्याधिकसहस्राब्दे (१०७३) निर्मितः । तथाहि पञ्चसंग्रहप्रशस्तौ त्रिसप्तत्याधिकेब्दानां सहस्रे शकविद्विषः । ( विक्रमस्य ) मसूतिकापुरे जातमिदं शास्त्रम्मनोहरम् ॥ ग्रन्थरचना समयैरनुमीयते यत्कवेर्जन्म विक्रमस्येकादश शताब्द्याः प्रथमपादान्तेऽभूत् (१०२५) परन्त्विदं वक्तुं नशक्नोमि यत्कविः कदा स्वर्जगाम । ग्रन्थकारेण स्वप्रशस्तौ गुरुपरम्परादेरपिनिर्देशः कृतस्तेन ज्ञायते यदयम्महानुभावः माथुरसंघमलञ्चकार । दिगम्बरजैनसमाजेऽर्हद्वलिकृताः सिंहसंदिसेनदेवाख्याः चत्वारः संघाः आसन् । अमी चत्वारोऽपि मूलसंघस्यशाखास्वरूपाः बभूवुः । ज्ञायतेऽनेन यन्माथुरसंघोनास्ति मूलसंघशाखास्वरूपः, अतः जैनाभासेष्वन्वेषे । नीतिसारे गोपुच्छिकादयः ( काष्ठासंघादयः ) पञ्चजैनाभासाः उक्ताः । तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 250