Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 650
________________ १८७२ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेकृष्णाष्टम्यां तु रोहिण्यां प्रौष्ठपद्यां शुभोदये । रोहिणी जनयामास पुत्रं संकर्षणं प्रभुम् ॥ ३४ . ततस्तु देवकीगर्भमापेदे भगवान्हरिः । आपन्नगर्भी तां दृष्ट्वा कंसो भयनिपीडितः ॥ ३५ ततः सुरगणाः सर्वे हर्षनिर्भरमानसाः । तुष्टुवुर्देवकी तत्र विमानस्था नभस्तले ॥ ३६ ततस्तु दशमे मासि कृष्णे नभसि पार्वति । अष्टम्यामर्धरात्रे च तस्यां जातो जनार्दनः ॥ ३७ इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः । चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः॥ ३८ [*श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः] । वसुदेवस्य जातोऽसौ वासुदेवः सनातनः ३९ सं दृष्ट्वा जगतां नाथं कृष्णमानकदुन्दुभिः । उवाच पाञ्जलिर्भूत्वा नमस्कृत्य जगन्मयम् ॥ ४० वसुदेव उवाचजातोऽसि मे जगन्नाथ भक्तकल्पतरो प्रभो । त्वमेव सर्वदेवानामनादिः पुरुषोत्तमः ॥ ४१ । त्वमचिन्त्यो महद्भूतो(त) योगिध्येयः सनातनः । मम पुत्रत्वमापन्नो धरण्यां धरणीधरः॥ ४२ । दृष्ट्वैतदद्भुतं रूपमैश्वरं पुरुषोत्तम । दानवाः पापकर्माणो न सहन्ते महौजसः॥ ४३ ___ रुद्र उवाचइत्यार्थितः स्तुतस्तेन पद्मनाभः सनातनः। उपसंहृतवान्रूपं चतुर्भुजसमन्वितम् ॥ ४४ मानुषेणैव भावेन द्विभुजेन व्यरोचत । ये चाङ्ग रक्षकाः सर्वे दानवास्तत्र संस्थिताः॥ १५ ते चापि मायया तस्य मोहितास्तमसाऽऽवृताः। एतस्मिन्नन्तरे देवमादायाऽऽनकदुन्दुभिः ॥४६ प्रययौ नगरातूर्ण सर्वदेवैरभिष्टुतः । पयोधरे वर्षमाणे नागराजो महाबलः ॥ फणासहस्रणाऽऽच्छाद्य भक्त्या देवं समन्वगात् । ते गोपुरकपाटे तु तत्पादस्पर्शनात्तदा ॥ ४८ भिद्यमाने सुवित्र्ते तत्रस्थाश्च विमोहिताः । स्रोतस्विनी सुपूर्णा या यमुनाऽपि महात्मनः ॥ ४९ प्रवेशाज्जानुमात्रं तु जलं तत्राभवत्तदा । उत्तीर्य यमुनां सोऽथ व्रजं तत्तीरसंस्थितम् ॥ ५० संस्तूयमानस्त्रिदशैः प्रविवेश यदूत्तमः । तत्र नन्दस्य पत्नी सा प्रसूता गोबजे शुभे ॥ ५१ विमोहिता माययैव मुषुप्तास्तमसाऽऽवृताः । तस्यास्तु शयने देवं विनिक्षिप्य स यादवः ॥ ५२ तां कन्यां समुपादाय प्रययौ मथुरां पुनः । पत्न्यै दत्त्वाऽथ तां बालामुवास सुसमाहितः॥५३ रुरोद बालभावात्सा देवकीशयनं गता। अथ बालध्वनिं श्रुत्वा तद्गृहस्याङ्ग रक्षकाः ॥ ५४ ।। कंसायाऽऽवेदयामासुर्देवकीप्रसवं शुभम् । कंसस्तूर्णमुपेत्यैनां जग्राह बालिकां तदा ॥ ५५ चिक्षेप च शिलापृष्ठे साऽपि तूर्ण वियस्थिता । तस्योत्तमाङ्गे स्वपदं दत्त्वा तूर्णं खमास्थिता ॥ उवाचाष्टभुजा देवी तदा राक्षसपुंगवम् ॥ ५६ देव्युवाचकिं मया क्षिप्तया मन्द जातो यस्त्वां वषिष्यति । सर्वस्य जगतः स्रष्टा धर्ता हर्ता च यः प्रभुः।। अस्मिँल्लोके समुत्पन्नः स ते प्राणान्हरिष्यति । रुद्र उवाचइत्युक्त्वा तेजसा देवी सहसाऽऽपूरयन्नभः । जगाम देवगन्धर्वैः स्तूयमाना हिमाचलम् ।। ५८ कंसस्तदोद्विग्नमनाः समाहूय स्वदानवान् । प्रलम्बप्रमुखान्वीरानुवाच भयपीडितः ॥ ५९ * इदमधैं झ. फ. पुस्तकस्थम् । १ झ. फ. 'सि नभे ब्रह्मक्षसंयुते । अ'। ५७

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697