Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 653
________________ २७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १८७५ तथैव चाध्वरेष्वेतदेतदेव महाव्रते । छन्दोगेय नमस्ये त्वां दिव्यं ते वपुरेव तत् ॥ ११८ आकाश एतदेवेदमोषधीष्वेवमेव च । नक्षत्रेषु च सर्वेषु ग्रहेष्वेतदिवाकरे ॥ ११९ एवंभूतेष्वेवमेव ब्रह्मेति वदति श्रुतिः। तदेवं परमं ब्रह्म प्रज्ञातं परितोमृतम् ॥ १२० हिरण्मयोऽव्ययो यज्ञः शुचिः शुचिषदित्यपि । वैदिकान्यभिधेयानि तव नान्यस्य कस्यचित् ॥ चक्षुर्मयं श्रोत्रमयं छन्दोमयमनोमयम् । वाङ्मयं परमात्मानं परेशं शंसति श्रुतिः॥ १२२ इति सर्वोपनिषदामर्थस्त्वं कमलेक्षण । स्तोतुं न शक्नुवे त्वां तु सर्ववेदान्तपारगम् ॥ १२३ महापराधमेतत्ते वत्सापहरणं मया । कृतं तत्क्षम्यतां नाथ शरणागतवत्सल ॥ १२४ महेश्वर उवाचएवं स्तुत्वा हरिं वेधाःप्रणम्य च पुनः पुनः। वत्सान्दत्त्वा पुनस्तस्मै प्रययौ स्वीयमालयम् १२५ हृदि कृत्वा महादेवं बालरूपं हरिं विधिः । उवास त्रिदशैः सार्ध हृष्टः पुष्टो महातपाः ॥ १२६ कृष्णेन सृष्टा वत्साश्च पूर्ववत्सास्तथाऽर्भकाः । अवापुरेकतां तत्र पश्यतां त्रिदिवौकसाम् ॥१२७ कृष्णस्तु वत्सपालैस्तैः प्रययौ नन्दगोकुलम् । ततः कतिपयाहःसु गोपालैर्यदुपुंगवः ॥ १२८ हृदं गत्वाऽथ कालिन्यास्तत्रस्थं सुमहाविषम् । सहस्रशीर्ष बलिनं नागराजानमच्युतः॥ १२९ निष्पिष्य फणसाहस्रं पादेनकेन लीलया। प्राणसंशयमापन्नं चकार मधुसूदनः ॥ १३० स कालियो लब्धसंज्ञस्तमेव शरणं ययौ । ररक्ष भगवान्कृष्णो नागं त्यक्तविषं तदा ॥१३१ वैनतेयभयाद्भीतं स्वपदेनाऽऽङ्कय मूर्धसु । हृदाद्विवासयामास कालिन्या यदुपुंगवः ॥ १३२ त्यक्त्वा स तं हृदं तूर्ण पुत्रदारसमन्वितः । नमस्कृत्याथ गोविन्दं प्रययौ कालियस्तदा ॥ १३३ विषदग्धास्तु ये पूर्व तत्तीरस्थाश्च शाखिनः। कृष्णेन वीक्षितास्तूर्ण फलिनः पुष्पिताऽभवन् १३४ अथ कालेन कौमारमवाप्य मधुसूदनः । गोवृन्दं पालयामास सर्वदेवमयः प्रभुः ॥ १३५ स्वसमानवयोभिस्तु गोपालस्तु यदूत्तमः । वृन्दावने मनोरम्ये सरामो विचचार ह॥ १३६ तत्र हत्वा महाघोरं ['सर्परूपं महासुरम् । अपहत्य महाकायं मेरु] मन्दरगौरवम् ॥ १३७ धेनुकस्य वनं प्राप्य तालहिन्तालगहरम्। धेनुकं पर्वताकारं खररूपं दुरासदम् ।। १३८ पादौ गृह्य समुत्क्षिप्य तालेन निजघान हैं । फलैः सुतृप्ता गोपालास्तद्वने रेमिरे तदा ॥ १३९ निष्क्रम्य तद्वनात्तूर्ण भाण्डीरं वटमागताः । तत्र ते रामकृष्णाभ्यां चिक्रीडुर्बाललीलया ॥१४० गोपवेषेण तत्रागात्मलम्बो नाम राक्षसः। रामं स्वपृष्ठमारोप्य ततो यातो नभस्तलम् ॥ १४१ मत्वा तं राक्षसं रामो मुष्टिना तस्य मूर्धनि । ताडयामासे रोषेण विद्वलाङ्गस्ततोऽभवत् ॥ १४२ राक्षसेनैव रूपेण निनदन्भैरवं स्वनम् । भिन्नशीर्षतनुस्तत्र ममार रुधिरोक्षितः॥ १४३ ततः प्रदोषसमये गोबजे नन्दनन्दनः । उवास गोपकन्याभिः क्रीडन्कौमारवीक्षिते ॥ १४४ अरिष्टो नाम दैत्योऽत्र गत्वा तु वृषभाकृतिः। कृष्णं हन्तुं समागत्य जगर्न च महास्वनम् १४५ * संधिरार्षः । + धनुश्चिान्तर्गतः पाठो झ. पुस्तकस्थः । एतदने केयुचित्पुस्तकेषु 'प्रविश्य तद्वनं रम्यं फलिल(तं) तालगह्वरम्' इत्यधिकम् । १क. ज. त्वा सदा देवि बा २ झ. फ. वेदम। ३ . रूपधरं सदा।पा। ४ ङ. ह। तत्क्षणादेव तत्पाला। ५. स वै रामो झ. फ. 'लाड़ः पपात सः । रा'। ७ क.च. ज. तोऽपतन् । ८ झ. "न्कौमोदिवसि । अ'। ९ ङ. अ. 'त्वा त्रिदशदुस्तरः । कृ'।

Loading...

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697