Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 664
________________ १८८६ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे - ३३ ३६ ३७ ३८ ४४ उद्यम्य मुसलं तूर्ण तं हन्तुमुपचक्रमे । प्राणसंशयमापन्नं जरासंधं नृपोत्तमम् || कृतं रामेण वलिना सिंहेनेव महाराजम् । दृष्ट्वा कृष्णोऽग्रजं प्राह न हन्तव्य इति प्रभुः ।। मोचयामास धर्मात्मा जरासंधं महामतिः । विमुच्य कृष्णवाक्येन शत्रुं संकर्षणोऽव्ययः ॥ सानुजो रथमारुह्य मथुरां प्रविवेश ह । स कालयवनं प्राप्य महावीर्यं बलान्वितम् ॥ पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम् । [दानवानां वधं चैव कंसस्य निधनं तथा ॥ ३४ अक्षौहिणीनां च वधं तथा स्वस्य पराजयम् ] | सर्वे निवेदयामास कृष्णस्य चरितं महत् ।। ३५ तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः । म्लेच्छकोटिसहस्त्रैस्तु जगाम मथुरां पुरीम् || मगधाधिपतेस्तस्य सहायार्थं महावलाः । तेनैव सहितस्तूर्ण महामदसमन्वितः ॥ बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम् । संनिवेश्य महासैन्यं रुरोध मथुरां बेली || कृष्णोऽपि चिन्तयित्वाऽथ पौराणां कुशलं तदा । ययाचे सागरं भूमिं निवासार्थं जनस्य च३९ त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः । कृष्णश्चाप्सु पुरीं तत्र नाम्ना द्वारवतीं शुभाम् ॥ बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम् । नानामणिमयैर्दिव्यैर्गृ (यदिव्यगृ) हपतिभिरावृताम् ४१ उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्वृताम् | असृजत्पुण्डरीकाक्षो यथेन्द्रस्यामरावतीम् (ती) ॥ ४२ सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः । उद्धृत्य सहसा रात्रौ द्वारवत्यां न्यवेशयत् ॥ ४३ प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः । महर्म्यतले विष्टा विस्मयं परमं ययुः ॥ बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः । परिपूर्णैर्निरातकैर्गृहमुख्यैः समावृताः ॥ तस्मिन्प्रहृष्टाः संतस्थुर्दिवि देवगणा इव । यवनेन तदा योद्धुं रामकृष्णौ महाबलौ || विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा । रामो लाङ्गलमादाय मुसलं च महारथः ॥ जघान समरे क्रुद्धो यवनानां महद्बलम् । कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ॥ निर्ददाह बलं सर्वे म्लेच्छानां देवकीसुतः । निहतं स्वबलं दृष्ट्वा स कालयवनो वली ॥ युयुधे वासुदेवेन गदया यवनेश्वरः । कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ॥ विमुखः प्राद्रवेत्कृष्णः सङ्ग्रामात्कमलेक्षणः । सोऽनुयातोऽतिवेगेन तिष्ठ तिष्ठेति च ब्रुवन् ।। ५१ वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः । तत्र प्रसुप्तो राजाऽसौ मुचुकुन्दो महामुनिः ॥ ५२ अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः । यवनोऽपि महाधीरो गदामुद्यम्य पाणिना ।। ५३ कृष्णं हन्तुं समारब्धो गुहां तां प्रविवेश ह । दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ॥५४ पादेन ताडयामास मुचुकुन्दं महामुनिम् । ततः प्रवोधमागम्य मुचुकुन्दो महामुनिः ॥ क्रोधात्संरक्तनयनो हुंकारं कृतवानसौ । तस्य हुंकारशब्देन तथा क्रोधनिरीक्षणात् ॥ निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः । ततः कृष्णं ददर्शाग्रे राजर्षिः पुरतः प्रभुम् ॥ ५७ नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । शङ्खचक्रगदापाणि पीतवाससमच्युतम् ॥ दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम् । अहो भाग्यमहो भाग्यमित्युवाच महामुनिः ॥ ५९ पुलकाङ्कितसर्वाङ्गः सानन्दाथुजलाकुलः । स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ॥ ४५ ४६ ४७ ४८ ४९ ५० ५५ ५६ ५८ ६० * अयं श्लोकः क. च. ज. झ. फ. पुस्तकस्थः । १ क. ज. झ. उ. फ. पुरीम् । २झ. फ. वनस्मन् । ३ च 'जर्षिरमितद्युतिम् । ३० ३१ ३२ २. 1 1 1 1

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697