________________
१८७२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेकृष्णाष्टम्यां तु रोहिण्यां प्रौष्ठपद्यां शुभोदये । रोहिणी जनयामास पुत्रं संकर्षणं प्रभुम् ॥ ३४ . ततस्तु देवकीगर्भमापेदे भगवान्हरिः । आपन्नगर्भी तां दृष्ट्वा कंसो भयनिपीडितः ॥ ३५ ततः सुरगणाः सर्वे हर्षनिर्भरमानसाः । तुष्टुवुर्देवकी तत्र विमानस्था नभस्तले ॥ ३६ ततस्तु दशमे मासि कृष्णे नभसि पार्वति । अष्टम्यामर्धरात्रे च तस्यां जातो जनार्दनः ॥ ३७ इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः । चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः॥ ३८ [*श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः] । वसुदेवस्य जातोऽसौ वासुदेवः सनातनः ३९ सं दृष्ट्वा जगतां नाथं कृष्णमानकदुन्दुभिः । उवाच पाञ्जलिर्भूत्वा नमस्कृत्य जगन्मयम् ॥ ४०
वसुदेव उवाचजातोऽसि मे जगन्नाथ भक्तकल्पतरो प्रभो । त्वमेव सर्वदेवानामनादिः पुरुषोत्तमः ॥ ४१ । त्वमचिन्त्यो महद्भूतो(त) योगिध्येयः सनातनः । मम पुत्रत्वमापन्नो धरण्यां धरणीधरः॥ ४२ । दृष्ट्वैतदद्भुतं रूपमैश्वरं पुरुषोत्तम । दानवाः पापकर्माणो न सहन्ते महौजसः॥
४३ ___ रुद्र उवाचइत्यार्थितः स्तुतस्तेन पद्मनाभः सनातनः। उपसंहृतवान्रूपं चतुर्भुजसमन्वितम् ॥ ४४ मानुषेणैव भावेन द्विभुजेन व्यरोचत । ये चाङ्ग रक्षकाः सर्वे दानवास्तत्र संस्थिताः॥ १५ ते चापि मायया तस्य मोहितास्तमसाऽऽवृताः। एतस्मिन्नन्तरे देवमादायाऽऽनकदुन्दुभिः ॥४६ प्रययौ नगरातूर्ण सर्वदेवैरभिष्टुतः । पयोधरे वर्षमाणे नागराजो महाबलः ॥ फणासहस्रणाऽऽच्छाद्य भक्त्या देवं समन्वगात् । ते गोपुरकपाटे तु तत्पादस्पर्शनात्तदा ॥ ४८ भिद्यमाने सुवित्र्ते तत्रस्थाश्च विमोहिताः । स्रोतस्विनी सुपूर्णा या यमुनाऽपि महात्मनः ॥ ४९ प्रवेशाज्जानुमात्रं तु जलं तत्राभवत्तदा । उत्तीर्य यमुनां सोऽथ व्रजं तत्तीरसंस्थितम् ॥ ५० संस्तूयमानस्त्रिदशैः प्रविवेश यदूत्तमः । तत्र नन्दस्य पत्नी सा प्रसूता गोबजे शुभे ॥ ५१ विमोहिता माययैव मुषुप्तास्तमसाऽऽवृताः । तस्यास्तु शयने देवं विनिक्षिप्य स यादवः ॥ ५२ तां कन्यां समुपादाय प्रययौ मथुरां पुनः । पत्न्यै दत्त्वाऽथ तां बालामुवास सुसमाहितः॥५३ रुरोद बालभावात्सा देवकीशयनं गता। अथ बालध्वनिं श्रुत्वा तद्गृहस्याङ्ग रक्षकाः ॥ ५४ ।। कंसायाऽऽवेदयामासुर्देवकीप्रसवं शुभम् । कंसस्तूर्णमुपेत्यैनां जग्राह बालिकां तदा ॥ ५५ चिक्षेप च शिलापृष्ठे साऽपि तूर्ण वियस्थिता । तस्योत्तमाङ्गे स्वपदं दत्त्वा तूर्णं खमास्थिता ॥ उवाचाष्टभुजा देवी तदा राक्षसपुंगवम् ॥
५६ देव्युवाचकिं मया क्षिप्तया मन्द जातो यस्त्वां वषिष्यति । सर्वस्य जगतः स्रष्टा धर्ता हर्ता च यः प्रभुः।। अस्मिँल्लोके समुत्पन्नः स ते प्राणान्हरिष्यति ।
रुद्र उवाचइत्युक्त्वा तेजसा देवी सहसाऽऽपूरयन्नभः । जगाम देवगन्धर्वैः स्तूयमाना हिमाचलम् ।। ५८ कंसस्तदोद्विग्नमनाः समाहूय स्वदानवान् । प्रलम्बप्रमुखान्वीरानुवाच भयपीडितः ॥ ५९
* इदमधैं झ. फ. पुस्तकस्थम् । १ झ. फ. 'सि नभे ब्रह्मक्षसंयुते । अ'।
५७