SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ २७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । स्वल्पमल्पतरं धर्म लोकेऽस्मिन्न च दृश्यते । धर्मेणैव धृता देव सत्यशौचयुतेन च ॥ तस्मादधर्मसंभूतं न लोकं धर्तुमुत्सहे ॥ रुद्र उवाचइत्युक्त्वा धरणी देवी तत्रैवान्तरधीयत । ततः सुरगणाः सर्वे ब्रह्मरुद्रपुरोगमाः॥ क्षीराब्धेरुत्तरं कूलमधिगम्य जगत्पतिम् । तुष्टुवुः स्तुतिभिः सर्वे मुनयश्च महातपाः॥ ततः प्रसन्नः प्राहेशः सर्वांस्तान्मुनिसत्तमान् ॥ श्रीभगवानुवाचभो भो देवगणाः सर्वे किंनिमिसमिहाऽऽगताः ॥ रुद्र उवाचततः पितामहः प्राह देवदेवं जनार्दनम् ॥ ब्रह्मोवाचदेवदेव जगन्नाथ पृथिवी भारपीडिता । राक्षसा बहवो लोके समुत्पन्ना दुरासदाः॥ जरासंधश्च कंसश्च प्रलम्बो धेनुकादयः । दुरात्मानः प्रबाधन्ते सर्वाल्लोकान्सनातनान् ॥ भारावतरणं कर्तुं पृथिव्यास्त्वमिहार्हसि ॥ रुद्र उवाचएवमुक्तो हृषीकेशो ब्रह्मणा परमेष्ठिना । प्राह गम्भीरया वाचा जगतां पतिरव्ययः ॥ २३ श्रीभगवानुवाचअवतीर्य नृलोकेऽस्मिन्यदूनामन्वये सुराः । अवनीभारमव्यग्रमपास्यामि महाबलाः॥ २४ रुद्र उवाचएवमुक्ताः सुराः सर्वे नमस्कृत्वा जनार्दनम् । स्वान्स्वाल्लोकान्समासाद्य परेशमन्वचिन्तयन् ततो भगवती मायां परमेशः समब्रवीत् ॥ श्रीभगवानुवाचहिरण्याक्षस्य षट्पुत्रान्समानीयावनीतलात । वसुदेवस्य पत्न्यां तु देवक्यां संनिवेशय ॥ २६ अनन्तांशः(शं) सप्तमोऽत्र(मं तु) संप्रकृष्य च मा चिरम् । तस्याः सपत्न्यां रोहिण्यां दद(ध)स्त्र शुभदर्शने ॥ ततोऽष्टमो ममांशस्तु देवक्यां संभविष्यति । नन्दगोपस्य पत्न्यां तु यशोदायां सनातनी ॥ २८ तवांशभूता(त्वं हि भूत्वा) महानिद्रा विन्ध्यं गत्वा महावला । तत्र संपूज्यमाना हि देवैरिन्द्रपुरोगमैः ॥ जहि दैत्यान्महावीर्याशुम्भासुरपुरोगमान् । रुद्र उवाचतथेत्युक्त्वा महाभागा हिरण्याक्षसुतांस्तदा । पर्यायेणैव देवक्यां षगर्भान्संन्यवेशयत् ॥ ३१ ताञ्जघान तदा कंसो जातमात्रान्महाबलः । ततस्तु सप्तमो गर्भो ह्यनन्तांशेन चोदितः ॥ ३२ वर्धमानं तु गर्भ तं रोहिण्यां समुपानयत् । गर्भसंकर्षणात्तस्यां जातः संकर्षणोऽव्ययः ॥ ३३ १ ङ. अ. 'चदमेन तु । त। २ झ. फ. 'हामाया हि । ३ ङ. 'यः । शुक्लषष्ठयां प्रौष्ठपद्यां संध्यायां च शु। २५
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy