Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 86
________________ 51 PURCHASED FOR GOVERNMENT. धाननौवृन्दे विरूढाशेषतस्करनिकरसहित एव प्रधावितं सत्वरं समागतश्च यानपात्रदेशम् । ततः पूकृतं पञ्जरदौवारिकेण भो भो समायाता एतास्तास्तस्करवेडिकाः प्रगुणीभवत यूयं तत एतच्छ्रुत्वा निर्यामको साहितास्तदुपदिष्टविधिनैव रणमण्डपमारूढाः सज्जीभूताश्चारित्रधर्मनृपतिसैंन्ये --- पूर्वोक्तरूपा योद्धाः गृहीतानि सर्वैरपि पञ्जरदौवारिकादिभिर्यथोचितं जीवादितत्वचिन्तनादिरूपाणि नाराचादिप्रहरणानि । मोहरा - जेनाज्ञापितो मिथ्यादर्शनमन्त्री । उत्साहिताः कषायचरटासूर्जितं हास्यादिषट्कलुण्टाकवृन्दम् । पुरस्कृतः पुरुषवेदादिपरिवृतः काममहा तस्करः व्यापारिता निद्रादयः । प्रतारिताश्च दुर्दर्शनावरणादयः । अग्रेतरीकृतं रोगाद्यसाध्यवेदनीय सैन्यम् । प्रवर्त्तिता जरान्तरायादयः । स्वमपि च निजतनयरागकेसरिद्वेष गजेन्द्रादितलवर्गान्वितेन मोहचरटाधिपेन वेष्टितं समंततोऽनन्तगुणपरिपाद्यायानपात्रम् । प्रहर्तुमारब्धं चाक्षत्रेण सर्वेरेव समकालम् 1 ततश्च सदागमसेनाधिपोत्साहितेन सम्यग्दर्शनमन्त्रिणा समाक्षिप्तो मिथ्यादर्शनमन्त्री । प्रशममार्दवादिमहायोधैरपि लीलयैव निद्धाः । क्रोधादिकषायचरटाः । वैराग्यब्रह्मव्रतादिमहासुभटैरपि दूरमुत्रासितो हास्यादिनिजतलवर्गानुगतः काममहालुण्टाकः । अप्रमादमहारथिना - पि श्रुतोपयोगोद्यमादिनोच्चैस्ताडिताः शिरसि निद्रा तन्द्रादयः । तदावररणक्षयोपशमवीरेणाप्यधरीकृताश्चक्षुर्दर्शना वर्णादयः । सद्धर्मानुष्ठानोद्दीपितसातोदय सैनिकेनापि बिलक्षीकृतं रोगाद्यसात वेदनीय सैन्यम् । पुण्योदयमहाबलवद्राजपुत्रेणापि निःप्रकृता जरान्तरायादयः । एवमन्येषामप्यनन्तानां चारित्रधर्मराज सैनिकानां निजप्रतिपक्षेण सह माहासमरसंमर्दे प्रवृत्ते निजं सैन्यं किञ्चिन्नम्यमानमवलोक्य रेरे तस्कराधमाः किमेतदारब्धं स्थिरीभूय लगत २ सर्वात्ममेति ब्रुवाणो महाचरटचक्रवर्त्ती ससैन्य एवारब्धो युगपत्प्रहर्तुं केचित्त्वती बच्छलघातिनो मोहसैनिकाः । केनापि पक्षेण समारोहन्ति तद्यानपात्रम् । विप्रतारयितुमुपक्रमन्तेमं सांतरणमण्डपस्यान्तः प्रहरन्ति छन्नीभूताः समाहत्य जरयन्ति सद्वासनामञ्जूषाङ्गानि । ततो मया तस्य परमपुरुषस्योपदेशं स्मृत्वा विरचय्य झटिति

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179