________________
51
PURCHASED FOR GOVERNMENT.
धाननौवृन्दे विरूढाशेषतस्करनिकरसहित एव प्रधावितं सत्वरं समागतश्च यानपात्रदेशम् । ततः पूकृतं पञ्जरदौवारिकेण भो भो समायाता एतास्तास्तस्करवेडिकाः प्रगुणीभवत यूयं तत एतच्छ्रुत्वा निर्यामको साहितास्तदुपदिष्टविधिनैव रणमण्डपमारूढाः सज्जीभूताश्चारित्रधर्मनृपतिसैंन्ये --- पूर्वोक्तरूपा योद्धाः गृहीतानि सर्वैरपि पञ्जरदौवारिकादिभिर्यथोचितं जीवादितत्वचिन्तनादिरूपाणि नाराचादिप्रहरणानि । मोहरा - जेनाज्ञापितो मिथ्यादर्शनमन्त्री । उत्साहिताः कषायचरटासूर्जितं हास्यादिषट्कलुण्टाकवृन्दम् । पुरस्कृतः पुरुषवेदादिपरिवृतः काममहा तस्करः व्यापारिता निद्रादयः । प्रतारिताश्च दुर्दर्शनावरणादयः । अग्रेतरीकृतं रोगाद्यसाध्यवेदनीय सैन्यम् । प्रवर्त्तिता जरान्तरायादयः । स्वमपि च निजतनयरागकेसरिद्वेष गजेन्द्रादितलवर्गान्वितेन मोहचरटाधिपेन वेष्टितं समंततोऽनन्तगुणपरिपाद्यायानपात्रम् । प्रहर्तुमारब्धं चाक्षत्रेण सर्वेरेव समकालम् 1 ततश्च सदागमसेनाधिपोत्साहितेन सम्यग्दर्शनमन्त्रिणा समाक्षिप्तो मिथ्यादर्शनमन्त्री । प्रशममार्दवादिमहायोधैरपि लीलयैव निद्धाः । क्रोधादिकषायचरटाः । वैराग्यब्रह्मव्रतादिमहासुभटैरपि दूरमुत्रासितो हास्यादिनिजतलवर्गानुगतः काममहालुण्टाकः । अप्रमादमहारथिना - पि श्रुतोपयोगोद्यमादिनोच्चैस्ताडिताः शिरसि निद्रा तन्द्रादयः । तदावररणक्षयोपशमवीरेणाप्यधरीकृताश्चक्षुर्दर्शना वर्णादयः । सद्धर्मानुष्ठानोद्दीपितसातोदय सैनिकेनापि बिलक्षीकृतं रोगाद्यसात वेदनीय सैन्यम् । पुण्योदयमहाबलवद्राजपुत्रेणापि निःप्रकृता जरान्तरायादयः । एवमन्येषामप्यनन्तानां चारित्रधर्मराज सैनिकानां निजप्रतिपक्षेण सह माहासमरसंमर्दे प्रवृत्ते निजं सैन्यं किञ्चिन्नम्यमानमवलोक्य रेरे तस्कराधमाः किमेतदारब्धं स्थिरीभूय लगत २ सर्वात्ममेति ब्रुवाणो महाचरटचक्रवर्त्ती ससैन्य एवारब्धो युगपत्प्रहर्तुं केचित्त्वती बच्छलघातिनो मोहसैनिकाः । केनापि पक्षेण समारोहन्ति तद्यानपात्रम् । विप्रतारयितुमुपक्रमन्तेमं सांतरणमण्डपस्यान्तः प्रहरन्ति छन्नीभूताः समाहत्य जरयन्ति सद्वासनामञ्जूषाङ्गानि । ततो मया तस्य परमपुरुषस्योपदेशं स्मृत्वा विरचय्य झटिति