________________
52
EXTRACTS FROM MANUSCRIPTS
निवेशितमावश्यकाटप्पनकाभिधानं सद्भावनामञ्जूषायां नूतनफलकं ततोऽपरमपि शतकविवरणनामकम् । अन्यदप्यनुयोगद्वारवृत्तिसंस्कृतं ततोऽपरमपि उपदेशमालासूत्राभिधानम् । अपरं तु तद्वृत्तिनामकम् । अन्यज्जीवसमासविवरणनामधेयम् । अन्यत्तु भावनासूत्रसंज्ञितम् । अपरं तु तद्विवरणनामकम् । अन्यत्त झटिति विरचय्य तस्याः सद्भावनाम
जूषाया अङ्गभूतं निवेशिवं नन्दिटिप्पनकनामधेय नूतनदृढफलकम् । एतथ नतनफलकैनिवेशितैर्वज्रमयीव संजाता सद्भावनामञ्जूषा । तेषां पापानामगम्या । ततस्तरतीव छलघातितया संचूर्णयितुमारब्धं तद्वीरकपाटसंपुटं ततो मया ससंभ्रमेण निपुणं तत्प्रतिविधानोपायं चिन्तयिताविरचमितुमारब्धं तदारपिधानतोविशेषावश्यकविवरणाभिधानं वज्रमयमिव नतं कपाटसंपटं ततश्चाभयकमारगणिधनदेवगणिजिनभद्रगणिलक्षमणगणिविबधचन्द्रादिमुनिवन्दश्रीमदानन्दश्रीमहत्तरावीरमतिगण्यादिसाहाय्यादरनिश्चितमिदानी हता वायं यद्येतन्निष्पद्यते ततो धावत धावत गृह्णीत गृह्णीत लगत लगतेत्यादिपूकुर्वतां सर्वात्मशक्तया युगपत्प्रहरता हा हा रवं कुर्वतां च मोहादिचरटानां चिरात् कथं कथमपि विरचय्य तदद्वारे निवेशितमेतदिति ततः शिरो हृदयं च हस्ताभ्यां कुदयविशस्तो मोहमहाचरटः समस्तमपि विलक्षीभूतं तत्सैन्यं न निलीनं च सनायकमेव तत्कचित् । ततः क्षेमेण शिवरत्नद्वीपं प्रति गन्तुं प्रवत्तं सद्यानपात्रमिति॥
क श्रीजिनभद्रगणेः पूज्यस्यैतानि भाष्यवचनानि । तय॑ते न्यतिकरदुर्गाण्यतिगम्भीराणि चलितानि ॥१॥ निवृत्तानि स्वयमेव हि कोव्याचार्यश्च बुधजनप्रवरैः ।
संगच्छते क पुनरपि न मे निवृत्तिः प्रयासोऽत्र ॥२॥ इति श्रीविशेषावश्यकत्तिः ॥ २८९७६ । स. १६७१ माहे सु. १ माघे. सु.