________________
50
EXTRACTS FROM MANUSCRIPTS
निविडघटनाविराजितं । सम्यक्ज्ञाननिर्यानकान्वितं । सुसाधुसंसर्गकायसूत्रनिविडबंधनबद्धम् । संवरकीलप्रभग्नानःशेषःश्रवद्वारं । सूत्रितसामायिकछेदोपस्थानीयभेदभिन्नरम्यभूमिकाद्वयम् । तदुपर्युपकल्पितसाधुसमाचारकरणमंडपं समंततो गप्तित्रयप्रस्स-गुप्तं । असंख्यशुभाव्यवसायसंनद्धदुर्योधृयोधृसहस्रदुरवलोकम् । सर्वतो निशितसद्गुरूपदेशावलिकनिकुरुम्बम् ।-व्यवस्थापितस्थिरतरातिसरलसद्बोध पस्तम्भम् । तद्विन्यस्तप्रकृष्टशुभभावमयमहासितपटम् । तदग्रसमारूढप्रौढसदुपयोगपञ्जरदौवारिकम् । तदवंद्वाप्रमादनं ! गरनिकरसमायुक्तमित्यादि सर्वांगसंपूर्यतया प्रवणं चारित्रमयं महायानपात्रं समर्पयामास । भणितवांश्च भो भो महाभाग समधिरोह स्वमस्मिन् यानपात्रे समारूढश्चात्र । मदीयशिक्षां तु (कु) वीणस्त्वमक्षोभेणैव दुस्तरमप्यमुं भनजलाधिपारं यास्यसि निःशेषदुःखातिक्रान्तमनन्तसुखमयं शिवरत्नद्वीपं ततस्तद्वचनेनाश्वासिताहमारूढसूत्रसमपितं च मम तेन महापुरुषेग सद्भावनामषायां प्राक्षिप्य शुभमनोनामक महारत्नम् । अभिहतवतां प्रतिरक्षणीयमिदं प्रयत्नतो भद्र । तिष्ठत्यस्मिन्महाप्रभावे शुभमनोरत्ने एतद्यानपात्रं यथोक्तो नियमिकः कूपस्तम्भो यो - पञ्जर. दौवारिकादिकं च सर्व क्षेमेणावतिष्ठमानमभीष्टदेश प्राप यथैतदभावे तु सर्वमेतत्प्रलयमुपयाति । अत एव तव पृष्टतः सर्वादारणैव तदपहरणार्थ लगिष्यन्ति ते मोहराजादयो दुष्टतस्करास्तेभ्यश्च त्वयेदमित्थमित्थं च रक्षणीयम् । सद्भावनामञ्जूषाङ्गानां चागेतनानां भङ्गं संभावयन् यान्यम्नीव तदङ्गानि तस्यां नित्यादिशिक्षा प्रयच्छन् मयापि समं दूरदेशं मृत्वा ततोऽन्तर्हितः संजातः श्रुतश्चायं सर्वोऽपि व्यतिकरः प्रमादपरताभिधानां पल्लीं समाश्रितेन दुष्टतस्कर धिपतिना मोहराजेन । ततो रेरे तस्कराधमा हता वयं २ यतः केनाप्यस्मद्वैरिणा निजयानपात्रमारोप्यास्मद्विषयभूतं शिवरत्नद्वीपं नेतुमारब्धः शोकसंसारिजीवः स च न केवलं स्वयं चलितं किन्त्वन्यानपि यथा दर्शनमत्मना सहानेकान्तयंस्तिष्ठति । तद्यावदेतदस्मदीयसंसारनाटकं सर्वशून्यं न करोति । तावद्धावधावदिति ब्रुवाणः ससंभ्रममुत्थाय दुर्बुद्धिनामिकां महानावमारूढः कुवासनाभि