Book Title: Nyaya Dipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
२४२
न्याय-दीपिका
पृ० १२ पं० १३ 'पुनरुपचारः'। तुलना-अचेतनस्य त्विन्द्रियलिङ्गादेस्तत्र करणत्वं गवाक्षादेरिवोपचारादेव । उपचारश्च तद्व्यवच्छित्तौ " सम्यग्ज्ञानस्येन्द्रियादिसहायतया प्रवृत्तेः'-प्रमाणनि० पृ० २।
__ पृ० १६ पं० ७ 'अभ्यस्ते' । तुलना—'तत्प्रामाण्यं स्वतः परतश्च'परीक्षामु० १-१३ । 'स्वयमभ्यस्त विषये प्रमाणस्य स्वतः प्रामाण्यसिद्धः, सकलविप्रतिपत्तीनामपि प्रतिपत्तुरभावात्, अन्यथा तस्य प्रमेये निस्संशयं प्रवृत्त्ययोगात् । तथाऽनभ्यस्तविषये परतः प्रमाणस्य प्रमाण्यनिश्चयात् । तन्निश्चयनिमित्तस्य च प्रमाणान्तरस्याभ्यस्तविषये स्वतः प्रमाणत्वसिद्ध रनवस्थापरस्पराश्रयणयोरनवकाशात् । 'प्रमाणप० पृ० ६३ ।
पृ० १६ पं० १ 'प्रमाणत्वेनाभिमतेषु' । तुलना—'व्याप्रियमाणे हि पूर्वविज्ञानकारणकलापे उत्तरेषामप्युत्पत्तिरिति न प्रतीतित उत्पत्तितो वा धारावाहिकविज्ञानानि परस्परस्यातिशेरत इति युक्ता सर्वेषामपि प्रमाणता।' प्रकरणप० पृ० ४३, बृहती पृ० १०३ ।
पृ० १६ पं० ३ 'उत्तरोत्तरक्षण' । तुलना-'न च तत्तत्कालकलाविशिष्टतया तत्राप्यनधिगतार्थत्वमुपपादनीयम्, क्षणोपाधीनामनाकलनात् । न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम्,स्वरूपेण तज्जननेऽनागतादिविशिष्टतानुभवविरोधात् ।'–न्यायकुसु० ४-१, पृ.२ । 'न च कालभेदेनानधिगतगोचरत्वं धारावाहिकज्ञानानामिति युक्तम् । परमसूक्ष्माणां कालकलादिभेदानां पिशितलोचनैरस्मादृशैरनाकलनात् ।'न्यायवात्तिकतात्पर्य० पृ० २१ । 'धारावाहिकेष्वपि उत्तरोत्तरेषां कालान्तरसम्बन्धस्यागृहीतस्य ग्रहणाद् युक्तं प्रामाण्यम् । सन्नपि कालभेदोऽतिसूक्ष्मत्वान्न परामृश्यत इति'- शास्त्रदी० पृ० १२४ । (अत्र पूर्वपक्षणोल्लेखः) । 'धारावाहिकज्ञानानामुत्तरेषां पुरस्तात्तनप्रतीतार्थविषयतया प्रामाण्यापाकरणात् । न च कालभेदावसायितया प्रामाण्योपपत्तिः । सतोऽपि कालभेदस्यातिसौक्षम्यादनवग्रहणात् ।'–प्रकरणप० पृ० ४० ।

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390