Book Title: Nyaya Dipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
परिशिष्ट
२४१
'नानार्थावमर्शः संशयः' - न्यायमं० पृ० ७ । 'अनुभयत्रो भयको टिस्पर्शी प्रत्ययः संशयः । अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेत इवात्मा यस्मिन् सति स संशयः, यथा अन्धकारे दूरादूर्ध्वाकारवस्तुपलम्भात् साधक-बाधकप्रमाणाभावे सति 'स्थाणुर्वा पुरुषो वा' इति प्रत्ययः ।' प्रमाणमी० पृ० ५ ।
पृ०६ पं०७ ' स्थाणुपुरुष' । तुलना - स्थाणुपुरुषयोरूर्ध्वतामात्रसादृश्यदर्शनात् वक्रादिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणादुभयत्राकृष्यमाणस्यात्मनः प्रत्ययो दोलायते ' किंनु खल्वयं स्थाणुः स्यात्पुरुषो वा इति' - प्रशस्तपा० भा० पृ० ८६ ८७ ।
पृ० प०६ 'विपरीतक' । तुलना - ' प्रतस्मिंस्तदेवेति विपर्ययः, यथा गव्येवाश्वः । — प्रशस्तपा० भा० पृ० ८८ । 'अतस्मिस्तदेवेति विपर्ययः 1 यत् ज्ञाने प्रतिभासते तद्रूपरहिते वस्तुनि 'तदेव' इति प्रत्ययो विपर्यासरूपत्वाद्विपर्ययः, यथा धातुवैषम्यान्मधुरादिषु द्रव्येषु तिक्तादिप्रत्ययः, तिमिरादिदोषात् एकस्मिन्नपि चन्द्रे द्विचन्द्रादिप्रत्ययः । नौयानात् अगच्छत्स्वपि गच्छत्प्रत्ययः, आशुभ्रमणादलातादावचक्रेऽपि चक्रप्रत्यय इति'प्रमाणमी० पृ० ५ ।
-
पृ० ९ पं० ११ किमित्या' । तुलना - 'किमित्यालोचनमात्रमनध्यवसायः, प्रशस्तपा० भा० पृ० १० । 'विशेषानुल्लेख्यनध्यवसायः । दूरान्धकारादिवशादसाधारणधर्मावमर्श रहितः प्रत्ययः अनिश्चयात्मकत्वादनध्यवसायः, यथा 'किमेतत्' इति - प्रमाणमी० पृ० ५ ।
पृ० ११ पं० १० ‘नन्वेव' । तुलना - 'ननु च तत्क्रियायामस्त्येवाचेतनस्यापीन्द्रियलिङ्गादेः करणत्वम्, चक्षुषा प्रमीयते, धूमादिना प्रमीयते इति । तत्रापि प्रमितिक्रियाकरणत्वस्य प्रसिद्धेरिति - प्रमाणनि० पृ० १ 'लोकस्तावद्दीपेन मया दृष्टं चक्षुषाऽवगतं धूमेन प्रतिपन्नं शब्दान्निश्चितमिति व्यवहरति । - न्यायवि० वि० १-२, पृ० ५७ ।

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390