Book Title: Nyaya Dipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
२४४
न्याय-दीपिका
पृ० ३० पं० ३ 'चक्षुरित्यत्र' । तुलना-'चक्षुश्चात्र धमित्वेनोपात गोलकस्वभावं रश्मिरूपं वा ? तत्राद्यविकल्पे प्रत्यक्षबाधा; अर्थदेशपरिहारेण शरीरप्रदेशे एवास्योपलम्भात्, अन्यथा तद्रहितत्वेन नयनपक्ष्मप्रदेशस्योपलम्भः स्यात् । अथ रश्मिरूपं चक्षुः, तर्हि धर्मिणोऽसिद्धिः । न खलु रश्मयः प्रत्यक्षत: प्रतीयन्ते, अर्थवत्तत्र तत्स्वरूपाप्रतिभासनात् ।' प्रमेयक० २-४ । 'अत्र न तावद्गोलकमेव चक्षुस्तद्विषयसन्निकर्षप्रतिज्ञानस्य प्रत्यक्षेण बाधनात्तेन तत्र तदभावस्यैव प्रतिपत्तेहेतोश्च तद्वाधितकर्मनिर्देशानन्तरं प्रयुक्ततया कालात्ययापदिष्टतोपनिपातात् ।...रश्मिपरिकरितमिति चेन्न, तस्याद्याप्यसिद्धत्वेन रूपादीनामित्यादिहेतोराश्रयासिद्धदोषात् ।'—प्रमाणनि० पृ० १८
पृ० ३१ पं० ६ 'तत्प्रत्यक्षं द्विविधं' तुलना–प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः'-लघीय० का० २ । 'तच्चोक्तप्रकारं प्रत्यक्षं मुख्यसांव्यवहारिकप्रत्यक्षप्रकारेण द्विप्रकारम्'-प्रमेयक० पृ० २२६ । तच्च प्रत्यक्षं द्विविधं सांव्यवहारिकं मुख्यं चेति'-प्रमाणनि० पृ० २३ ।
पृ० ३२ पं० १ अवग्रहः' । तुलना-'विषयविषयिसन्निपातानन्तरमाद्यग्रहणमवग्रहः'-लघीय० स्वो० का० ५। 'तत्राव्यक्तं यथास्वमिन्द्रियैः विषयाणामालोचनावधारणमवग्रहः'-तत्त्वार्थाधि० भा० १-१५। 'विषयविषयिसन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषयि सन्निमाते सति दर्शनं भवति, तदनन्तरमर्थस्य ग्रहणमवग्रहः ।'—सर्वार्थसिद्धि १-१५ । तत्त्वार्थवा० १-१५ । धवला पु० १, पृ. ३५४ । प्रमाणप० पृ० ६८ । प्रमाणमी० पृ० १-१-२६ ।
पृ० ३२ पं० ३ 'ईहा' । तुलना-विशेषाकांक्षा ईहा-लघीय० का ५। 'अवगृहीतेऽथें विषयार्थंकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा चेष्टा ईहा ।'-तत्त्वार्थाधि० भा० १-१५ । अवगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा'—सर्वार्थसि० १-१५ । तत्त्वार्थवा० १-१५। तत्त्वार्थश्लो० पृ० २२० । प्रमाणप० पृ० ६८ प्रमाणमी० १-१ २७ । जैनतर्कभा० पू० ५।

Page Navigation
1 ... 383 384 385 386 387 388 389 390