Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्श दवात्स्यायनभाष्ये प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः ॥ १ ॥ निर्देशे यथावचनं विग्रहः । चार्थे इन्दः समासः । प्रमाखादीनान्तत्वमिति शैषिको षष्ठी, तत्त्वस्य ज्ञानम् निःश्रेयसस्याधिगम इति कर्मणि raौ, एतावन्तो विद्यमानार्थाः । एषाम विपरीतज्ञानार्थ मिहोपदेशः, सोऽयमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः, आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान्निःश्रेयसाधिगमः । तचैतदुत्तरसूत्रेणान्द्यत इति । हेयं तस्य निर्वर्त्तकं ज्ञानमात्यन्तिकं तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्थ र्थ - पदानि सम्यगबुध्वा निःश्रेयसमधिगच्छति । तत्र संशयादीनां पृथग्वचनमनर्थकम् संशयादयो यथासम्भवं प्रमाणेषु प्रमेत्रेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति, सत्यमेतत् इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुमहायोपदिश्यन्ते यासां चतुर्थीयमान्वितिको न्यायविद्या | तस्याः पृथक् प्रस्थानाः संशयादयः पदार्थाः । तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात् यथोपनिषदः । तस्मात् संशयादिभिः प दाथैः पृथक् प्रस्थाप्यते । तत्र नानुपलब्धे न निर्णीतेऽर्थे न्यः यः प्रवर्त्तते, किन्तर्हि संशयितेऽर्थे, यथोक्तं “ विस्मृश्य पञ्चप्रतिपचाभ्यामर्थावधार सं निर्णय इति," विमर्शः संशयः । पञ्चप्रतिपक्षौ न्यायप्रवृत्तिः । यर्थावधारणं निर्णयस्मत्त्वज्ञानमिति । स चायं किंखिदिति वस्तुविमर्शमात्त्रमनवधारणं ज्ञानं संशयः प्रमेयेऽन्तर्भवन्द्येवमर्थम्पृथगुच्यते । अथ प्रयोजनम् । येन प्रयुक्तः प्रवर्त्तते 'तत् प्रयोजनम् । यमर्थमभीप्सन् जिहा सन् वा कर्मारभते तेनानेन सर्वे प्राणिनः सर्व्वाणि कर्माणि सर्वच विद्या व्याप्ताः, तदाश्रयञ्च न्यायः प्रवर्त्तते, कः पुनरयं न्याय: । प्रमाणैरर्थ परीच्चणं न्यायः प्रत्यक्षागम: श्रितमनुनानं सान्वीचा प्रत्यक्षागमायामीक्षितस्याम्बोक्षणमन्वीक्षा तथा प्रवर्त्तत इत्यान्वीचिको न्यायविद्या न्यायशास्त्रम् । यत्प ुनरत्तुमानं प्रत्यक्षागमविरुद्ध न्यायाभासः स इति तत्र । For Private And Personal

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 330