________________
Shri Mahavir Jain Aradhana Kendra
२
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्श दवात्स्यायनभाष्ये
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः ॥ १ ॥
निर्देशे यथावचनं विग्रहः । चार्थे इन्दः समासः । प्रमाखादीनान्तत्वमिति शैषिको षष्ठी, तत्त्वस्य ज्ञानम् निःश्रेयसस्याधिगम इति कर्मणि raौ, एतावन्तो विद्यमानार्थाः । एषाम विपरीतज्ञानार्थ मिहोपदेशः, सोऽयमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः, आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान्निःश्रेयसाधिगमः । तचैतदुत्तरसूत्रेणान्द्यत इति । हेयं तस्य निर्वर्त्तकं ज्ञानमात्यन्तिकं तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्थ र्थ - पदानि सम्यगबुध्वा निःश्रेयसमधिगच्छति । तत्र संशयादीनां पृथग्वचनमनर्थकम् संशयादयो यथासम्भवं प्रमाणेषु प्रमेत्रेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति, सत्यमेतत् इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुमहायोपदिश्यन्ते यासां चतुर्थीयमान्वितिको न्यायविद्या | तस्याः पृथक् प्रस्थानाः संशयादयः पदार्थाः । तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात् यथोपनिषदः । तस्मात् संशयादिभिः प दाथैः पृथक् प्रस्थाप्यते । तत्र नानुपलब्धे न निर्णीतेऽर्थे न्यः यः प्रवर्त्तते, किन्तर्हि संशयितेऽर्थे, यथोक्तं “ विस्मृश्य पञ्चप्रतिपचाभ्यामर्थावधार सं निर्णय इति," विमर्शः संशयः । पञ्चप्रतिपक्षौ न्यायप्रवृत्तिः । यर्थावधारणं निर्णयस्मत्त्वज्ञानमिति । स चायं किंखिदिति वस्तुविमर्शमात्त्रमनवधारणं ज्ञानं संशयः प्रमेयेऽन्तर्भवन्द्येवमर्थम्पृथगुच्यते । अथ प्रयोजनम् । येन प्रयुक्तः प्रवर्त्तते 'तत् प्रयोजनम् । यमर्थमभीप्सन् जिहा सन् वा कर्मारभते तेनानेन सर्वे प्राणिनः सर्व्वाणि कर्माणि सर्वच विद्या व्याप्ताः, तदाश्रयञ्च न्यायः प्रवर्त्तते, कः पुनरयं न्याय: । प्रमाणैरर्थ परीच्चणं न्यायः प्रत्यक्षागम: श्रितमनुनानं सान्वीचा प्रत्यक्षागमायामीक्षितस्याम्बोक्षणमन्वीक्षा तथा प्रवर्त्तत इत्यान्वीचिको न्यायविद्या न्यायशास्त्रम् । यत्प ुनरत्तुमानं प्रत्यक्षागमविरुद्ध न्यायाभासः स इति तत्र
।
For Private And Personal